SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिक प्रकीर्णकम् ३५ वचनयोस्तुल्यत्वप्रदर्शनार्थः ‘माहणस्स' ति मा हन २ इत्येव - मादिशति स्वयं स्थूलप्राणातिपातादिनिवृत्तत्वाद् यः स माहनः यद्वा ब्रह्मणो ब्रह्मचर्यस्य देशतः सद्भावात् ब्राह्मणो- देश - विरतस्तस्य वा यद्वा श्रमण:- साधुस्तस्य माहनः - परमगीतार्थस्तस्य वा 'अंतिए 'त्ति समीपे एकमप्यास्तामनेकं आर्यआराद् यातं पापकर्मभ्य इत्यायें अत एव धार्मिकमिति सुवचनं- शोभनवाक्यं श्रुत्वा - आकर्ण्य निशम्य - मनसा अवधार्य 'त'ति तदनन्तरमेव सः-- गर्भस्थजन्तुः भवति--जायते 'तिव्वसं ०' तीव्रसंवेगेन--भृशं दुःखलक्षाकुलभवभयेन सञ्जाता--सम्यगुत्पन्ना श्रद्धा -- श्रद्धानं धर्मादिषु यस्य स तीव्रसंवेगसञ्जातश्रद्धः 'तिव्वध०' तीव्रो यो धर्मानुरागः--धर्मबहुमानस्तेन रक्त इव - रङ्गित इव यः स तीव्रधर्मानुरागरक्तः स गर्भस्थः वैराग्यवान् जीवः 'णं' वाक्यालङ्कारे 'धम्मकामएन्ति धर्मे श्रुतचारित्रलक्षणे कामो - वाञ्छामात्रं यस्य स धर्मकामकः १ पुण्ये --तत्फलभृते शुभकर्मणि कामो यस्य स पुण्यकामकः स्थानाङ्गे तु - अन्न १ पान २ वस्त्रा ३ ऽऽलय ४ शयना ५ ऽऽसन ६ मनो ७ वचन ८ काय लक्षणं नवविधं पुण्यं प्रतिपादितं जगदीश्वरेण भगवतेति २, स्वर्गे -- देवलोके कामो यस्य स स्वर्गकामकः ३ मोक्ष - शिवे अनतानन्तसुखमये कामो यस्य स मोक्षकामकः ४, एवमग्रेऽपि, नवरं काङ्क्षा - गृद्धिरासक्तिरित्यर्थः, धर्मे काङ्क्षा सञ्जाता
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy