SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ परिणामयति, शरीरादितया गृह्णातीत्यर्थः, सर्वतः-सर्वात्मना 'उच्छ्वसिति' सर्वप्रकारेण ऊर्ध्वश्वासं गृह्णातीत्यर्थः, सर्वतःसर्वात्मना निःश्वसिति-श्वासमोक्षणं करोतीत्यर्थः, अभीक्ष्णंपुनः पुनः आहारयति अभीक्ष्णं परिणामयति अभीक्ष्णमुच्छ्वसिति अभीक्ष्णं निःश्वसिति, 'आहच्च'त्ति कदाचिदाहारयति कदाचिन्नाहारयति तथास्वभावत्वात् कदाचित् परिणामयति कदाचिन्न परिणामयति कदाचिदुच्छ्वासिति कदाचिनोच्छ्वसिति कदाचिनिःश्वसिति कदाचिन्न निःश्वसिति अपर्याप्तावस्थायां । अथ कथं सर्वतः आहारयतीत्याह-'माउजीवर' रसा, हियते-आदीयते यया सा ग्सहरणी नाभिनालमित्यर्थः मातः जीवस्य रसहरणी माजीवरसहरणी, किमित्याह-पुत्रजीवरसहरणी, पुत्रस्य रसोपादाने कारणत्वात् , कथमेवमित्याहमातृजीवप्रतिबद्धा सती सा यतः पुत्रजीवं 'फुडा' इति पुत्र. जीवं स्पृष्टवती, इह प्रतिवद्धता-गाढसम्बन्धस्तदंशत्वात् स्पृष्टता च-सम्बन्धमानं अतदंशत्वात् , अथवा मातृजीवरसहरणी १ पुत्रजीवरसहरणी २ चेति द्वे नाडयौ स्तः, तयोश्चाद्या मातृजीव. प्रतिबद्धा पुत्रजीवं स्पृष्टेति, 'तम्हा' इति यस्मादेवं तस्मा. न्मातृजीवप्रतिबद्धया रसहरण्या पुत्रजीवस्पर्शनात् आहारयति तस्मात् परिणमयति, 'अवरावि य' ति पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबद्धा सती मातृजीवं स्पृष्टवती, यस्मादेव तस्माचिनोति शरीरं, उक्तश्च तन्त्रान्तरे
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy