SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ २३ देहावयवरूपा काचिन्नित्तिरस्ति या शब्दग्रहणोपकारे वर्तते १ चक्षरिन्द्रियस्यान्तः-मध्ये केव लिगम्या धान्यमसूराकारा देहावयवरूपा काचिन्नित्तिरस्ति या रूपग्रहणोपकारे वर्तते २ घ्राणेन्द्रियस्य अन्तः-मध्ये केवलिश्या अतिमुक्तककुसुमाकारा देहावयवरूपा काचिन्निवृत्तिरस्ति या गन्धग्रहणोपकारे वर्तते ३ रसनेन्द्रियस्य अन्तः-मध्ये जिनगम्या क्षुरप्राकारा देहावयवरूपा काचिनिवृत्तिरस्ति या रसग्रहणोपकारे वर्तते ४ स्पर्शनेन्द्रियस्य अन्तः-मध्ये केवलिदृष्टा देहाकारा काचिन्नित्तिरस्ति या स्पर्शग्रहणोपकारे वर्तते ५-१ बहिनिवृत्तिस्तु या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते सैव मन्तव्या २, उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनां खड़गस्य छेदनशक्तिरिव ज्वलनस्य दहनशक्तिरिव वा या स्वकीय २ विषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् २, तथा ज्ञानावरणकर्मक्षयोपशमाजीवस्य शब्दादिग्रहणशक्तिरूपं लब्धिभावेन्द्रियं १ यत्त शब्दादीनामेव ग्रहणपरिणामलक्षणं तदुपयोगभावेन्द्रियमिति २, तत्र यानि द्रव्येन्द्रियाणि तानि जीवानामिन्द्रियपर्याप्तौ सत्यां भवन्ति, यानि च भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति, तथा नयनस्य विषयोऽप्रकाशकवस्तु पर्वताद्याश्रित्यात्मागुलेन सातिरेकं योजनलक्षं स्यात् , प्रकाशके त्वादित्यचन्द्रादावधिकमपि विषयपरिमाणं स्यात , नात्र विषये नियमः
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy