SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ तन्दुलगैचारिकप्रकोर्णकम् [१४५ सानि च-विलाससहितानि मधुराणि च सविलासमधुराणि एवंविधानि गीतानि वचनानि चेति शेषस्तैः काश्चित् पुरुपान् मोहयन्तीति, 'उपहसिएहिन्ति उपहसितैः काश्चित् हास्यचेष्टाकरणैः कामिनां हास्यमुत्पादयन्तीति, 'उवग्गहिएहिं'ति उपगृहितानि-पुरुषस्यालिङ्गनलिङ्गग्रहणकरग्रहणादीनि तेः काश्चित् नराणां स्वप्रेमभावं दर्शयन्तीति, 'उवसद्देहिति उपशब्दानि-सुरतावस्थायां वलवलायमानादीनि प्रच्छन्नसमीपशब्दकरणानि वा तैः काश्चित् कामिनां कामरागं प्रकटयन्तीति ११ । 'गुरुगदरिसणेहित्ति गुरुकाणि च प्रौढानि-पयोधरनितम्बादीनि स्थूलोच्चत्वात् सुन्दराणि वा यानि दर्शनानि चआकृतयस्तानि गुरुकदर्शनानि तेदूरस्था एव काश्चित् कामिनः स्ववशे कुर्वन्तीति १ यद्वा 'गु'इति गुह्यप्रकाशनेन पुरुषं पातयन्ति, यद्वा गु-इति गुरु स्वजनकभादिकमपि विप्रतार्याकार्य प्रवर्तयन्ति, 'रु'इति रुदनकरणेन पुरुषं सस्नेह कुर्वन्ति २ 'ग'इति स्वपितुहगमनादिप्रस्तावे पुरुषमत्यन्तं रागवन्तं कुर्वन्तीति ३ 'द'इति दर्शनेन रक्तकृष्णादिदन्तदर्शनेन कामिनो मोहयन्तीति ४ 'रि'इति सम्भाषणे रे मां मुश्च रे! मां मा कदर्थयेत्यादिकथनेन कुरामाः पुरुषं सकामं कुर्वन्तीति आषत्वात् 'रि'इति यद्वा अरि इति रतिकलहे-अरे मया सह मा कुरूपहासमित्यादिरतिकलहकरणेन पुरुष क्रीड
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy