________________
१२४ ] तन्दुलगैचारिकप्रकोर्णकम् दिभिगणगणायमानमित्यर्थः, विसर्पद्-अङ्गादिशिथिलत्वेन विस्तारं व्रजत् 'सुलुसुलिंतमंसोडति सुलुसुलायमानमांसपुटं 'मिसिमिसिमिसंतकिमियंति मिसिमिसित्ति मिसन्तः शब्दं कुर्वन्तः कृमयो यत्र तत् मिसिमिसिमिसत्कृमिक थिविथिविथिविअंतबीभच्छंति छबछबायमानैरन्त्रैर्वीभत्संरौद्रमित्यर्थः ॥ ११४ ॥
'पग.' प्रकटिता:-प्रकटत्वं प्राप्ताः पांशुलिका यत्र तत्प्रकटितपांशुलिकं, विकरालं-भयोत्पादक, शुष्काश्च ताः सन्धयश्च शुष्कसन्धयस्तासां सङ्घातः-समुदायो यत्र तच्छुकसन्धिसङ्घातं, पतितं गर्तादौ निश्चेतनक-चैतन्यविवर्जितं शरीरं-वपुः एतादृशं-पूर्वोक्तधर्मयुक्तं त्वं 'जाण'त्ति जानीहि, 'जाणे'इति पाठे तु निश्चेतनकं शरीरमहमीदृशं जानामीति ॥ ११५॥ __ 'वचाउ.' नवभिः स्रोतोभिः परिगलद्भिः वर्चस्कात्गूथात् अशुचितरं-अपवित्रतमं 'आमगमल्लगरूवेत्ति अपक्कशरावतुल्ये शरीरे निवेदं --वैराग्यं व्रजत, विष्णुश्रोशरीरे विक्रमयशोराजस्येव ॥ ११६ ॥ ___ 'दो हत्था०' द्वे हस्ते द्वे पादे 'सीसं उच्चंपियंति शीर्षमुत्-प्राबल्येन चम्पितं यत्र तच्छी!चम्पितं तस्मिन् , यद्वा--शीषणोत--प्राबल्येन चम्पितं--आक्रमितं यत्तत् तथा