________________
१२२ ]
तन्दुलवैचारिक प्रकोर्णकम्
•
यद्वा- कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन् शिरास्नसानां लध्वितराणां बन्धनं यत्र तत्तथा तस्मिन, मांसचर्मलेपे विष्ठाकोष्ठागारे - वर्चस्कगृहोपमे कलेवरे हे जीव ! तव को रागः ? ॥ १११ ॥
'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वचकूवो 'त्ति वर्चस्ककूपो विष्ठाभृतकूपो भवति, किंभूतः १ - भिणिभिणी'ति शब्द 'भणंत'त्ति भणतांभृशं कथयतां काकानां कलिः - वायसानां सङ्ग्रामो यत्र स भिणिभिणिभणत्काककलिः, कृमिकैः - विष्ठानीलंगुभिः सुलुसुलेत्येवं शब्दं करोतीतिसुलुसुलायते, स्रोतोभिश्व रेल्लकैः पूतिकंपरमदुर्गन्धं वहति - स्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ॥ ११२ ॥
अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेण - उडियनयणं खगमुह विकट्टियं विप्पइन्नबाहुलयं । अंतविकट्टियमालं सोसघडीपागडीघोरं ॥ ११३ ॥ भिणिभिणिभणत सद्दं विसप्पियं सुलुसुचिंतमं सोडं । मिसिमिसिभिसंत किमियं विविधिविधिवितबीभच्छं ॥ पागडियपसुलोयं विगरालं सुक्कसंधिसंघायं । पडियं निच्चेयणयं सरोरमेयारिसं जाण (णे) ॥ ११५ ॥ वच्चाउ असुइतरं नवहिं सोएहिं परिगलंतेहिं । आमगमल्ल गरूवे निव्वेयं वच्चह सरीरे ॥ ११६ ॥