________________
१२० ]
तन्दुलवैचारिक प्रकीर्णकम्
नवच्छिद्रा, उत्कटगन्धविलिप्ता - तीव्र दुर्गन्धव्याप्ता, एवंविधा शरीरकुटी वर्त्तते, तां च बालजनो - मूर्खलोकः अतिमृच्छितं यथा स्यात् तथा गृद्धो-लम्पटत्वं गतः ॥ १०३ ॥
कथं गृद्ध इत्याह-- 'जं पेम ० ' यस्मात् प्रेमरागरक्तःकामरागग्रथिलीकृतो लोकः 'अवयासेऊण 'त्ति अवकाश्य-प्रकाश्य-- प्रकटीकृत्येर्थ ः 'गूढमुत्तोलिं'ति अपवित्रं रामाभगं पुंचिह्न वा जुगुप्सनीयं, दन्तानां मल:--पिप्पिका दन्तमलस्तेन सह 'चिक्कणंगं' चिकणाङ्ग --चिगचिगायमानमङ्ग - शरीरमालिङ्गय च शीर्षघटीकाञ्जिकं - कपालकपैरखट्टरसं चुम्बनादिप्रकारेण 'पियसि 'त्ति पिबसि, अतृप्तवत् घुटयसि ॥ १०४ ॥
--
'दंतमु ० ' गजानां दन्तमुशलेषु 'गहणं 'ति ग्रहणं -- आदानं लोकानां वर्त्तते मांस चशब्दात् स्नसाशृङ्गादौ शशकमृगाणां ग्रहणं वर्त्तते, चमरीणां वालेषु ग्रहणं, द्वीपिकानांचित्रकव्याघ्रादीनां चर्मनखेषु ग्रहणं, चशब्दादनेकतिरश्चामवयवग्रहणं वर्त्तते । को भावः १--यथा गजादीनां तिरवां दन्तादिकं सर्वेषां भोगाय भवति तथा मनुष्यावयवो न भोगाय भवति पश्चादतः कथ्यतेऽनेनादौ जिनधर्मो विधेय इति ॥ १०५ ॥
I
'पूइ० ' इह पूतिककाये -- अपवित्रवपुषि च्यवनमुखे - मरणसम्मुखेनित्यकाल विश्वस्तः सदा विश्वासं गतः 'आइक्खसु ० '
M