________________
चिन्तामणि पाश्वनाथ स्तोत्रम् ]
[२६५
न संति बाह्या मम केचनार्था,भवामि तेषां न कदाचनाहम् । इत्थं विनिश्चित्य विमुच्य बाह्य, स्वस्थः सदात्वं भव भद्र-मुक्तये श्रात्मानमात्मन्यविलोक्यमानस्त्वं दर्शनशानमयो विशुद्धः, एकाग्रचित्तः खलु यत्र तत्र, स्थितोऽपि साधुलभते समाधिम् १६ एकः सदा शाश्वतिको ममात्मा, विनिर्मलः साधिगमस्वभावः, बहिर्भवाःसन्त्यपरे समस्ताः, न शाश्वताः कर्मभवाः स्वकीयाः२० यस्यास्ति नैक्यं वपुषापि साध, तस्यास्ति किं पुत्रकलत्रमित्रैः, पृथकृते चर्मणि रोमकूपाः, कुतो हि तिष्ठन्ति शरीरमध्ये ॥२१।। संयोगतो दुःखमकभेद, यतोऽश्नुते जन्मवने शरीरी, ततस्त्रिऽधासौ परिवर्जनीयो, यियासुना निवृतिमात्मनीनाम् २२ सर्व निराकृत्य विकल्पजालं. संसारकान्तारनिपातहेतुम्; विविक्तमात्मानमवेक्ष्यमाणो, निलीयसे त्वं परमात्मतत्त्वे ॥ ५३ ॥ स्वयं कृतं कर्म यदात्मना पुर। फलं तदीयं लभते शुभाशुभम्, परेण दत्त यदि लभ्यते स्फुट, स्वयंकृतं कर्म निरर्थकं तदा ।। २४॥ विमुक्तिमार्गप्रतिकूलवर्तिना, मया कषायाक्षवशेन दुर्धिया, चारित्रशुद्धेर्यदकारि लोपनं तदस्तु मिथ्या मम दुष्कृतं प्रभो! २५
॥ श्री चिन्तामणि--पाश्वनाथ--स्तोत्रम् ॥
॥शार्दूलविक्रीडितत्तम् ॥
किं कर्पूरमयं सुधारसमयं किं चन्द्ररोचिर्मयं । किं लावण्यमयं महामणिमयं कारुण्यकेलिमयम् ॥ विश्वानन्दमयं महोदयमयं शोभामयं चिन्मयं । शुक्लध्यानमय वपुर्जिनपते भूयाद् भवालयमस् ॥१॥