SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ - रत्नाकरपञ्चविंशतिः ] [ २९१ जननयनकुमुदचंद्र - प्रभास्वरा स्वर्गसंपदो भुक्त्वा । ते विगलितमलनिचया, अचिरान्मोक्षं प्रपद्यन्ते ॥ ४४ ॥ || श्री रत्नाकर पञ्चविंशतिः ॥ उपजातिवृत्तम् श्रेयः श्रियां मंगलकेलिसझ !, नरेन्द्रदेवेन्द्रनतांघ्रिपद्म ! | सर्वज्ञ ! सर्वातिशयप्रधान !, चिरञ्जयज्ञानकला निधान ! ॥१॥ जगत्त्रयाधार ! कृपावतार ! दुर्वारसंसार विकारवैद्य ! श्रीवीतराग ! त्वयि मुग्धभावा द्विज्ञप्रभो विज्ञपयामि किंचित् २ किं बाललीलाकलितो न बालः, पित्रोः पुरो जल्पति निर्विकल्पः । तथा यथार्थ कथयामि नाथ !, निजाशयं सानुशयस्तवाग्रे ||३|| दत्तं न दानं परिशीलितं च, न शालि शीलं न तपोऽभितप्तम् । शुभो न भावोऽप्यभवद् भवेऽस्मिन् विभो ! मया भ्रांतमहो मुधैव दग्धोऽग्निना क्रोधमयेन दष्टो, दुष्टेन लोभाख्य महोरगेण । ग्रस्तोऽभिमानाजगरे माया-जालेन बद्धोऽस्मि कथं भजे त्वां ५ कृतं मयाऽमुत्र हितं न चेह, लोकेऽपि लोकेश ! सुखं न मेऽभूत् । अस्मादृशां केवलमेव जन्म, जिनेश ! जज्ञे भवपूरणाय || ६ || मन्ये मनो यन्नमनोज्ञवृत्त !, त्वदास्यपीयूष मयूख लाभात् । द्रुतं महानन्दरसं कठोर मस्मादृशां देव ! तदश्मतोऽपि ॥ ७ ॥ त्वत्तः सुदुः प्रापमिदं मयाऽऽतं, रत्नत्रयं भूरिभवभ्रमेण । प्रमादनिद्रावशतो गतं तत् कस्याऽग्रतो नायक ! पूरकरोमि ||८||
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy