________________
भक्तामरस्तोत्र
[२८१
शुभ्रप्रभावलयभूरिविभा विभोस्ते, लोकत्रययुतिमतां द्युतिमाक्षिपन्ती । प्रोद्यदिवाकरनिरन्तरभूरिसङ्ख्या, दीप्त्यिार्जयत्यपि निशामपि सोमसौम्याः ॥३४॥ स्वर्गापवर्गगममार्गविमार्गणेष्टसद्धर्मतत्त्वकथनैकपटुस्त्रिलोक्याः । दिव्यध्वनिर्भवति ते विशदार्थसर्वभाषास्वभावपरिणामगुणैः प्रयोज्यः ] ॥३५॥ उन्निद्रहेमनवपङ्कजपुञ्जकांति, पर्युल्लसन्नखमयूखशिखाऽभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः, पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३६॥ इत्थं यथा तव विभूतिरभूजिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतः प्रहतान्धकारा, तादृक् कुतो ग्रहगणस्य विकासिनोऽपि ॥३०॥ श्च्योतन्मदाविलविलोलकपोलमूलमत्तभ्रमभ्रमरनादविद्धवृकोषम् । ऐरावताभमिभमुद्धतमापतन्तं, दृष्ट्वा भयं भवतिनो भवदाश्रितानाम् ॥३८॥ मिन्नेभकुम्भगलदुज्ज्वलशोणितातमुक्ताफलप्रकरभूषितभूमिभागः। -- .. बद्धक्रमः क्रमगतं हरिणाधिपोऽपि, नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३९ ॥