SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ १७ प्रथमोऽङ्कः। चारुदत्त:-भवतु। तिष्ठ तावत् । अहं समाधि निर्वर्तयामि । (नेपथ्ये।) तिष्ठ वसन्तसेने, तिष्ठ । __(ततः प्रविशति विटशकारचेटैरनुगम्यमाना वसन्तसेना ।) विट:-वसन्तसेने, तिष्ठ तिष्ठ । किं त्वं भयेन परिवर्तितसौकुमार्या __ नृत्यप्रयोगविशदौ चरणौ क्षिपन्ती। उद्विग्नचञ्चलकटाक्षविसृष्टदृष्टि या॑धानुसारचकिता हरिणीव यासि ॥ १७ ॥ शकारः यिष्ठ वशन्तशेणिए, च्यिष्ठ । किं यांशि धावशि पलाअशि पक्खलन्ती वाशू पशीद ण मलिस्सशि चिट्ठ दाव । कामेण दज्झदि हु मे हडके तवश्शी अङ्गाललाशिपडिदे विअ मंशखण्डे ॥ १८ ॥ (क) णस्य सर्वमेव विपरीतं परिणमति । आदर्शगतेव छाया वामतो दक्षिणा दक्षिणतो वामा । अन्यच्चैतस्यां प्रदोषवेलायामिह राजमार्गे गणिका विटाश्चेटा राजवल्लभाश्च पुरुषाः संचरन्ति । तस्मान्मण्डूकलुब्धस्य कालसर्पस्य मूषिक इवाभिमुखापतितो वध्य इदानीं भविष्यामि । त्वमिह उपविष्टः किं करिष्यसि। (क) तिष्ठ वसन्तसेनिके, तिष्ठ । सन्ति । एतेन विटादीनां प्रवेशं सूचयति । 'नासूचितस्य प्रवेशः' इति । मण्डूकलुब्धस्येव कालसर्पस्य मुखापतितो मूषिक इव वध्यो भविष्यामि ॥ किं त्वमिति । विशदौ संचरणलाघवगुणान्वितौ । पटू इति यावत् । उद्विग्नचञ्चलकटाक्षरूपेण विसृष्टा दृष्टिर्यया सा तथा । अनुसारोऽनुगमनम् । व्याधेन यदनुगमनं तेन त्रस्ता मृगीव ॥ १७ ॥शकारभाषायां चवर्गशिरस्थितोऽन्तस्थो यकारो लेख्यः । 'पूस्पृष्टा तालव्य' इति वचनात् । स च संयोगः प्रयत्नलाघवात्पूर्वस्य गुरुत्वं न करोति । च्यिष्ठ तिष्ठ । किं याशीत्यादि । वसन्ततिलकच्छन्दसा श्लोकः । प्रस्खलन्ती । प्रस्खलनं निम्नोन्नतादौ गतिविघटनम् । 'बाला स्याद्वासूः' इत्यमरः । न म्रियसे । तिष्ठ तावत् । हडके हृदयम् । तवश्शी वराकः । अङ्गारराशिपतितं
SR No.022600
Book TitleMruccha Katikam
Original Sutra AuthorN/A
AuthorSudraka, Prithvidhara, Hiranand Mulraja Sarma, Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1902
Total Pages444
LanguageSanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy