________________
ऋषिभाषितटोका
१५१
"
मूर्खस्वभावा हि बालाः, न किञ्चिद् बालेभ्यो कर्तृभ्यो न विद्यत इति । तत् पण्डितः सम्यक् सहेतेत्यादि । बालः खलु पण्डितं प्रत्यक्षमेव परुषं वदेत्, तत् पण्डित इत्यादि यावत् प्रत्यक्षं वदति, न दण्डेन वा यष्ट्या वा लेष्टुना वा मुष्ट्या वा बालः कपालेन वाऽभिहन्ति तर्जयति ताडयति परिताडयति परितापयति उद्वापयति व्यापादयति । मूर्ख इत्यादि पूर्ववत् । बालश्च त्ति संयोजने चेदर्थे वा पण्डितं दण्डेनेत्यादि यावद् उद्वापयेत् तत् पण्डित इत्यादि यावदुद्वापयति, न केनचिच्छस्त्रजातेन किञ्चिच्छरीरजातं शरीरभागमाच्छिनत्ति वा विच्छिनत्ति वा । मूर्ख इत्यादि पूर्ववत् । बालश्च चेद् वा पण्डितं केनचिच्छस्त्रजातेनेत्यादि यावद् विच्छिन्द्यात्, तत् पण्डित इत्यादि यावद् विच्छिनत्ति वा न जीविताद् व्यपरोपयति । मूर्ख इत्यादि पूर्ववत् । बालश्च पण्डितं जीविताद् व्यपरोपयेत्, तत् पंण्डित इत्यादि यावद् व्यपरोपयति, न धर्माद् भ्रंशयति । मूर्ख इत्यादि पूर्ववत् । येन केनचिदुपायेन पण्डित आत्मानं मुञ्चेत् दोषाद बालेनोदीरितात् । तदपि स दोष एव तस्य पण्डितस्य हितं भवेत् ( १ ) || अप्रतिज्ञभावादुत्तरं न विद्यते, स्वयं पण्डितो वेषान् अनेकरूपान् भविष्यद्भवान् न प्रकरोति यदि वा वेसे त्ति दोसे त्ति स्थाने लेखनभ्रमात् । अप्रतिज्ञ इह लोके भवति यथार्थो ब्राह्मणः (२)|| दीनेन सामान्येन पुरुषेण किं क्रियते देहकाङ्क्षणात् णण्णत्थ त्ति अन्यत्र न किञ्चिदित्यर्थः । दीनस्य कालकाङ्क्षणं प्रायोपगमनादिना मृत्युप्रतिक्षणं वा लोकादनन्यत्वं वा आत्मस्वभावस्य हीयते न ज्ञायते (३)।।(४) (५) (६) || इसिगिर्यध्ययनम् ।
३५
चतुःषु स्थानेषु स्खलु भो जीवाः कुप्यन्तो माद्यन्तो गृहन्तो लुभ्यन्तों वज्र समाददति वज्र' समादाय चतुरन्त संसारकान्तारे पुनः पुनरात्मानं परिविध्वंसयन्ति, तद् यथा क्रोधेन मानेन मायया लोभेन । तेषां च कषायाणामहं परिघात हैतोरकुप्यन्नमाद्यन्नगूहन्नलुभ्यं स्त्रिगुप्त स्त्रिदण्डविरतो निःशल्योऽगारवः स्त्रो-भक्त-देश-राजविशेषितचतुर्विकथा विवर्जितः पञ्चसमितः पञ्चेन्द्रियसंवृतः शरीरसंधारणार्थं योगसंघारणार्थं नवदोषकोटिपरिशुद्धं दशदोषविप्रमुक्तम् उद्मोत्पादनदोषशुद्धं तत्र तत्रेतरेतरेषु कुलेषु परार्थे कृतं परार्थं निष्ठितं विगताङ्गारं विगतसरसाहार - धनवददातृवर्णनं विगतधूमं विरसाहार कृपणदातृनिन्दनवर्जितं शस्त्रातीतं शस्त्रपरिणतं पिण्डं शय्यामुपधि चैष भावयामीत्यर्षिणा भाषितम् । - अज्ञानविप्रमूढात्मा प्रत्युत्पन्नाभिधा