________________
ऋषिभाषितटीका
" किं तु सर्वतः सर्वथा सर्वकालं नास्ति जीव इति सर्वच्छेदं वदति । एतं नास्तिकवादमुदाहरति यथा ऊर्ध्वं पादतलेऽधः केशाग्रमस्तके एष आत्मपर्ययः कृत्स्नस्त्वक्पर्यन्तो जीवः एष जीवो जीवति एतज्जीवितं भवति । यथा दग्धेषु बीजेषु न पुनरङ्कुरोत्पत्तिर्भवति एवमेव दग्धे शरीरे न पुनः शरीरोत्पत्तिर्भवति । तस्मादिदमेवजीवितं, नास्ति परलोको, नास्ति सुकृतदुष्कृतकर्मणां फलवृत्तिविशेषः । न प्रत्यायान्ति जीवा, न स्पृशन्ति पुण्य-पापे, अफलं कल्याणपापकम् । तस्मादेतत् सम्यगिति ब्रवीमि यथा ऊर्ध्वमित्यादि यावत् त्वक्पर्यन्तो जीवः । एष मृतो, नैतज्जीवितं भवति । यथा नामादग्धेषु बोजेष्वन्याङ्कुरोत्पत्तिर्भवति एवमेवादग्धे शरीरेऽन्याङ्कुरोत्पत्तिर्भवति, तस्मात् तपःसंयमाभ्यां मूले शरोरं दग्ध्वा न पुनः शरोत्पत्तिर्भवतोति I - चिह्नितपुस्तकानुसारेणाध्याहार्ये नास्तिकं प्रत्युक्तम् तस्मात् पुण्यपापाग्रहणात् कर्म लब्धसुखदुःखसंभवाभावाच्छरीरदाहे पापकर्माभावाच्च शरीरं दग्ध्वा न पुनः शरीरोत्पत्तिर्भवति ॥ उत्कटाध्ययनम् ।
II_
१४१
२१
नाहं पुरा किञ्चज्जानामि सर्वलोके । - अज्ञानमूलमज्ञानं कारणं यथा तथा खलु भो पूर्वं न जानामि न पश्यामि नाभिसमवैमि नाभिसंबोधामि, ज्ञानमूलं खलु भो इदानीं जानामि यावद् अभिसंबोधामि । अज्ञानमूलं खलु मम कामैः कृत्यं करणीयम्, ज्ञानमूलं खलु मम कामैरकृत्य करणीयम् । अज्ञानमूलं जीवाश्चतुरन्तं संसारं परिवर्तन्ते, ज्ञानमूलं जीवास्तं व्यतिपतिन्ति । तस्मादज्ञानं परिवर्ज्य ज्ञानमूलं सर्वदुःखानामन्तं करिष्यामि कृत्वा शिवमचलं यावच्छाश्वतं स्थानं अभ्युपगतः स्थास्यामि । (१)। अज्ञानवशान्मृगा विहंगाः पक्षिणो मत्तवारणाश्च पाशैर्बध्यन्ते, मत्स्या आमिषेभ्यः स्रंसन्ति, अज्ञानं सुमहद्भयं भवति ( २ ) | | ( ३ ) ( ४ ) || दीपे पातः पतङ्गस्य कौशिकारेः पक्षिणो बन्धनं किम्पाकफलभक्षणं च त्रोण्येतान्यज्ञानस्य निबन्धनानि भवन्ति (५)| अज्ञानमोहितो वृद्धः सिंहः कथाप्रसिद्धो द्वितीयं सिंहमुदपानस्थं दृष्टवान् संभग्नगात्रयष्टिर्निधनं गतो मृत: ( ६ ) । सिंहश्च भुजङ्गश्चाज्ञानविमोहितौ ग्राह शनिपातेन द्वावपि विनाशं गताविति का कथेति न ज्ञायते ( ७ ) । 'सुप्रियं तनुजं - माता भद्रा नामाज्ञानविमोहिता तत्प्रतिबोधशोकेनात्मघातं कृत्वा व्याघ्रोभूता क्रुद्धा सत्यभिद्रुत्याखादीदिति सुकोशलमातृसहदेवीकथा, सा तु किमिहाधिक्रियते न वेति शङ्क्यते (८) । औषधानां विन्यासः संयोगानां योजनं भेषजानां मिश्रणं विद्यानां च साधनमज्ञानेन न सिध्यति, सिध्यति तु ज्ञानयोगेन (९, १०) | गृहपतिपुत्राध्ययनम् ।