________________
ऋषिभाषितटीका १
सोयवंत श्रोतव्यं शिक्षितव्यमेव वदतीति श्रोतव्यमेव प्रवदति येन समय यद् आदाय मुच्यते लोकः सर्वदुः खेभ्यः । - तस्माच्छ्रोतव्यात् परं न किञ्चिदस्ति श्रोतव्यम् । सोयं ति शौचमिति पुस्तकानां पाठः वृद्धलेखकानां भ्रम इति नाद्रियते । प्राणातिपातं त्रिविधं त्रिविधेन काय वाङ् मनोभिरेव चरण-करण-त्रिकाभ्यामिति चेन्न, नैव कुर्यान्न कारयेदिति करणात्रेकस्य प्रथम- द्वितीयाङ्गयोरुक्तत्वात् । मृषावादोदत्तादानमब्रह्म-परिग्रहाविति द्वितीयादीनि श्रोतव्यानि चतुर्थ - पञ्चमे त्वेकीभूते इति चित्रम् । (१) (२) || अडयं ति अटमान इति मन्यामहे, उपधानं तपस्, तत् सेवमान उपधानवान् भवति (३)॥ सत्यमदत्तं ब्रह्मचर्यम् चेति त्रोण्येवोपसेवते श्रद्धी, उपधानवन्ति चैतानि त्रीण्येवोक्तानि महात्रते द्वितीय ( प्रथम ) पञ्चमे अनादृत्य ।
एवं स बुद्धो विरतो विगतपापो दान्तो द्रव्योऽलं ति समर्थस्त्यागी त्रायी वा न पुनरपि इच्चत्थं ति इत्यर्थं लौकिक वृत्त्यर्थ इत्थत्तं ति वाऽत्रत्वमत्रभावित्वं समागच्छति समागमिष्यतीति ब्रवीमीति सर्वेष्वप्यध्ययनेषूक्तमालापकमस्मिन् प्रथम एव लिखितुमलमिति । नारदाध्ययनम् ।
यस्मात् कृत्यात् पापकर्मणो भीताः पलायन्ते दीर्णेऽव वाहिनी सेना तदेवादाय जीवाः कर्मानुगामिनो भवन्तीत्यस्य श्लोकस्य द्वितीय चतुर्थपादयोरपरिहार्यौ विनिमयः (१) ॥ - अति आत्मनि ( २ ) || (३) (४) (५) (६) (७) | दुःखमूलं च मोहजन्मनीति सप्तमे श्लोक उक्ते अज्ञानेन संसारे समर्जितं यस्मात् तस्मात् कर्माणि मूलतो हन्यात् । मृगारिः सिंहो यथोषरं प्राप्य सरउत्पत्ति मार्गतीति पञ्चदशाध्ययनानुसारेणाध्याहार्यम्, अस्य तु श्लोकस्य तृतीयपादोऽन्यस्मात् कस्माच्चिदन्वयादिहैव प्रविष्टो भविष्यति ( ४ ) || वात्सीपुत्राध्ययनम् ।
३
लेपः कर्म कषायो वा । भवितव्यं खलु सर्वलेपोपरतेन । लेपोपलिप्ताः खलु भो जीवा अनमदग्रं दीर्घाध्वानं चतुरन्तं संसारसागरमनुपरिवर्तन्त इत्याद्यनेकशब्दा लुताः । लेपोपरतास्तु संसारं व्यतिक्रान्ता जीवा शिवेत्यादिविशेषितं स्थानमभ्युप