________________
३६]
[उत्तराध्ययनसूत्रे-भाग-२ सा राजीमती तदैकान्ते गुहायां रथनेमि संयतं-साधुं दृष्ट्वा भीता, कदाचिदयं मम शीलभङ्गं कुर्यादिति विचार्य शीलभङ्गभयाद्वेपमाना-कम्पमाना सती निषीदति, तदाश्लेषपरिहारार्थं भूमावुपविशति । किं कृत्वा ? बाहुभ्यां द्वाभ्यां-भुजाभ्यां सङ्गोफं-परस्परबाहुसङ्गफनं स्तनोपरि मर्कटबन्धं कृत्वा ॥ ३५ ॥
अह सोवि रायपुत्तो, समुद्दविजयंगओ।
भीयं पवेइयं दटुं, इमं वक्कमुदाहरे ॥ ३६ ॥ अथानन्तरं सोऽपि राजपुत्रः समुद्रविजयाङ्गजो रथनेमिर्मीतां प्रवेपितां - कम्पमानां राजीमती साध्वीं दृष्ट्वा इदं वाक्यमुदाहरत् ॥ ३६ ॥
रहनेमी अहं भद्दे, सुरूवे चारुभासिणि ।
ममं भयाहि सुतणू, न ते पीला भविस्सइ ॥३७॥ किं वाक्यमुवाचेत्याह-हे भदे ! हे कल्याणि ! अहं रथनेमिरस्मि, मामन्यं कमपि मा जानीहि । हे सुरूपे ! सुन्दराकारे ! हे चारुभाषिणि ! हे मधुरवचने ! हे सुतनु-शोभनशरीरे! कोमलगात्रि ! त्वं मां भजस्व, भर्तृत्वेनाङ्गीकुरु ।'ते' तव पीडा दुःखं न भविष्यति, मया सह विषयसुखं भुझ्व ॥ ३७॥
एहि ता भुंजिमो भोए, माणुस्सं खु सुदुल्लहं ।
भुत्तभोए तओ पच्छा, जिणमग्गं चरिस्सामो ॥ ३८ ॥ हे राजीमति ! एहि-मम समीपे आगच्छ । तावदावां विषयं भुञ्जीवहि । हे प्रिये ! 'खु' इति निश्चयेन मानुष्यं-मनुष्यस्य जन्म सुदुर्लभं वर्तते । ततोऽनन्तरमावां भुक्तभोगौ भूत्वा पश्चाज्जिनमार्ग-जिनोक्तधर्मं चारित्रधर्मं मोक्षमार्ग चरिष्यावः । पूर्वं हि यदा भोगसुखं भुज्यते, ततश्च दीक्षा गृह्यते, तदा भुक्तभोगत्वेन पुनर्भोगसुखेषु मनो न स्यात् । तस्मात्पूर्वमधुना यथेच्छं भोगसुखं भोक्तव्यमिति भावः ॥ ३८ ॥
दठूण रहनेमिं तं, भग्गजोयं पराइयं ।
राइमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९ ॥ तदा राजीमत्यसम्भ्रान्ता सती-निर्भया सती, तया ज्ञातमहं बलात्कारेणापि शीलं रक्षयिष्यामीति निश्चित्याऽत्रस्ता सत्यात्मानं शरीरं वस्त्रैः संवृणोत्याच्छादयति, गुहामध्यमेव स्थिता सतीति शेषः । किं कृत्वा ? रथनेमि भग्नयोगं दृष्ट्वा, भग्नो-नष्टो योगः-संयमोत्साहो यस्य स भग्नयोगस्तं पराजितं-स्त्रीपरीषहेण पराभूतं रथनेमि ज्ञात्वा ॥ २९ ॥
अह सा रायवरकन्ना, सुट्ठिया नियमव्वए । जाई कुलं च सीलं च, रक्खमाणी तयं वए ॥ ४० ॥