________________
२२, रथनेमीयमध्ययनम्]
[३१ अह उस्सिएण छत्तेण, चामराहि य सोहिओ । दसारचक्केण य सो, सव्वओ परिवारिओ ॥ ११ ॥ चउरिंगिणीए सेणाए, रइयाए जहक्कम । तुंडियाण सन्निनाएण, दिव्वेणं गयणं फुसा ॥ १२ ॥ एयारिसीए इड्ढीए, जुईए उत्तिमाइ य । नियगाओ भवणाओ, णिज्जाओ वण्हिपुङ्गवो ॥ १३ ॥
तिसृभिः कुलकम् ॥ अथानन्तरं वृष्णिपुङ्गवो-नेमिकुमारो निजकाद् भवनात्स्वकीयगृहादेतादृश्या समीपतरवर्तिन्या ऋद्धया, पुनरुत्तमया प्रधानया धुत्या-दीप्त्या पाणिग्रहणाय निर्गतः, उग्रसेनगृह प्रति स्वमन्दिरानिःसृत इत्यर्थः । कीदृश्या ऋद्धया ? तां ऋद्धिपद्धतिमाह-स नेमिकुमार उच्छितेनोच्चैः कृतेन छत्रेण मेघाडम्बरछत्रेण, च पुनश्चामराभ्यामुभयपार्श्वयोर्वीज्यमानः शोभितः, पुनः स नेमिकुमारो दशाईचक्रेण-यादवसमूहेन सर्वतः परिवृतः । पुनः कीदृशः ? चतुरङ्गिण्या सेनया परिवृतः, पुनः कीदृशः ? त्रुटितानां तूर्याणां भेरिमृदङ्गपटहकरतालतालादीनां दिव्येन-देवयोग्येन सन्निनादेन-सम्यक्शब्देन सहितः, कीदृशेन तूर्याणां निनादेन ? गगनस्पृशा, गगनं स्पृशतीति गगनस्पृक्, तेनाकाशव्यापिना ॥११-१२-१३ ॥
अह सो तत्थ निज्जंते, दिस्स पाणे भयदुए । वाडेहिं पंजरेहिं च, संनिरुद्धे सुदुक्खिए ॥ १४ ॥ जीवियंतं तु संपत्ते, मंसट्ठा भक्खियव्वए ।
पासित्ता से महापन्ने, सारहिं इणमब्बवी ॥१५॥युग्गम् ॥
अथानन्तरं स नेमिकुमारः सारथिमिदमब्रवीत्-किं कृत्वा ? तत्र विवाहमण्डपासन्ने निर्यन्नधिगच्छन् भयदुतान्-भयव्याकुलान् प्राणान्-जीवान् स्थलचरान् मृग-शशक-शूकरतित्तिरलावकादीन मांसा) भक्षितव्यान् ‘पासित्ता' इति विचार्य दृष्ट्वा, तादृशान् हदि निधाय, कथंभूतान् प्राणान् ? वाटकैभित्तिभिः कण्टकवाटिकादिभिर्वा निरुद्धानतिशयेन यन्त्रितान्, पुनः पञ्जरैलॊहवंशशलाकादिविनिर्मितैः पक्षिनियन्त्रणस्थानैः सन्निरुद्धान्, अत एव सुदुःखितान् । पुनः कीदृशान् ? जीवितान्तं सम्प्राप्तान्, ते प्राणिन एवं जानन्त्यस्माकं मरणमागतम्, कुतोऽस्माकं जीवितमिति मरणदशां सम्प्राप्तान्, कीदृशो नेमिकुमारः ? महाप्राज्ञो महाबुद्धिसहितः, अर्थाद् ज्ञानत्रयेण विस्तीर्णबुद्धिरित्यर्थः ॥१४-१५॥