________________
२७० ]
[ उत्तराध्ययनसूत्रे - भाग - २
तीसं तु सागराई, उक्कोसेण ठिई भवे । अट्टमंमि जहन्नेणं, सागरा अउणतीसई ॥ २४३ ॥
अष्टमे ग्रैवेयके त्रिंशत्सागरोपमाण्युत्कृष्टायुः स्थितिर्भवेत्, जघन्यतस्त्वेकोनत्रिंशत्सागरोपमाणि ॥ २४३ ॥
सागरा इक्कतीसं तु, उक्कोसेण ठिई भवे ।
नवमंमि जहन्नेणं, तीसई सागरोवमा ॥ २४४ ॥
नवमे ग्रैवेयके एकत्रिंशत्सागरोपमाण्युत्कृष्टायुः स्थितिर्भवेत्, जघन्यतस्तु त्रिंशत्सागरोपमाणि ॥ २४४ ॥
अथ पञ्चानुत्तराणामायुःस्थितिमाह
तित्तीस सागराई, उक्कोसेण ठिई भवे ।
चउसुवि विजयाईसु, जहन्नेणेक्कतीसई ॥ २४५ ॥
'चतुर्ष्वपि विजयवैजयन्तजयन्तापराजितेषु विमानेषूत्कृष्टेन त्रयस्त्रिंशत्सागरोपमाण्यायुःस्थितिर्भवेत् । जघन्येनैकत्रिंशत्सागरोपमाणि ॥ २४५ ॥ अजहन्नमणुक्कोसं, तित्तीसं सागरोवमा ।
महाविमाणे सव्वट्टे, ठिई एसा वियाहिया ॥ २४६ ॥
सर्वार्थे इति सर्वार्थसिद्धे महाविमानेऽजघन्यं तथाऽनुत्कृष्टं यथास्यात्तथा त्रयस्त्रिंशत्सागरोपमाण्यायुः स्थितिर्भवेत् । न विद्यते जघन्या यत्र तदजघन्यम्, न विद्यते उत्कृष्टा यत्र तदनुत्कृष्टम्, अर्थाज्जघन्यापि नास्ति, उत्कृष्टापि नास्ति । एकैव त्रयस्त्रिंशत्सागरोपमरूपैषायुःस्थितिर्व्याख्याता ॥ २४६ ॥
अथ देवानां कार्यस्थितिमाह
जा चेव आउठिई, देवाणं तु वियाहिया ।
सा तेसिं कायठिई, जहन्नुक्कोसिया भवे ॥ २४७ ॥
या चैव देवानां चतुर्विधानामप्यायुः स्थितिर्जघन्योत्कृष्टा व्याख्याता, सैव कायस्थितिर्भवेत् । यतो हि देवा मृत्वा देवा न भवन्ति ॥ २४७ ॥
अथ कालान्तरमाह
अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नयं ।
विजढंमि सकाए, देवाणं हुज्ज अंतरं ॥ २४८ ॥