________________
३३, कर्मप्रकृत्याख्यमध्ययनम् ]
[ १९५
क्त्वस्यातीचारा लगन्ति, तदा मिथ्यात्वं भवति । यदा दर्शनप्रकृतिषु मोहो भवति, अथवौपशमिकादिकं मोहयति, तदपि सम्यक्त्वमोहनीयमुच्यते ।
-
अथ मिथ्यात्वमोहनीयस्वरूप- मुच्यते सम्यक्त्वाऽभावो मिथ्यात्वमशुद्धदलिकरूपं, यतस्तत्त्वेऽतत्त्वरुचिः, अतत्त्वे तत्त्व - रुचिरुत्पद्यते तन्मिथ्यात्वम्, तत्र मुह्यते इति मिथ्यात्वमोहनीयम् । यत्तु सम्यग्मिथ्यात्व - मोहनीयं तत्तु शुद्धाशुद्धदलिकरूपं, यस्माज्जनधर्मोपरि रागोऽपि न भवति, द्वेषोऽपि न भवति, अन्तर्मुहूर्तस्थितिरूपम्, यथा नालिकेरद्वीपवासिपुरुषोऽन्नोपरि राग्यपि न भवति, द्वेष्यपि न भवति, तादृग्स्वभावं मिश्रमोहनीयं तृतीयमुच्यते । एतास्तिस्रः प्रकृतयो दर्शने सम्यक्त्वेऽर्थाद्दर्शनस्य सम्यक्त्वस्य च मोहनीयकर्मणो ज्ञेया इति शेषः । सम्यक्त्वस्याऽज्ञानं सम्यक्त्वमोहनीयम्, मिथ्यात्वस्याऽज्ञानं मिथ्यात्वमोहनीयम्, मिश्रस्य मोहो मिश्रमोहनीयम् । इह हि सम्यक्त्वमिथ्यात्वमिश्ररूपा जीवस्य धर्मा उच्यन्ते ॥ ९ ॥ दर्शनमोहनीयं त्रिविध- मुक्त्वाऽथ चारित्रमोहनीयभेदानाह- 'चरित्तेति' गाथा पूर्वमेवोक्ता ।
अथान्वयः - तीर्थकरै- श्चारित्रमोहनं कर्म द्विविधं व्याख्यातम् । चरित्रे चारित्रग्रहणे मोहयति मूढं करोतीति चारित्र - मोहनम्, यत्र चारित्रफलं जानन्नपि तन्नाद्रियते, तद्द्वैविध्यमाह- कषायमोहनीयं प्रथमं, कषायाः क्रोधादयश्चत्वारस्तै म हयतीति कषायमोहनीयम् । तथा नोकषायैर्नवभिर्हास्यादिषट्कवेदत्रिकरूपैर्मो हयतीति नोकषायमोहनीयम् ॥ १० ॥ तत्र यत्प्रथमं कषायजं मोहनीयं कर्म, तत् षोडशविधं भवति । कषाया हि क्रोधमानमायालोभाः, प्रत्येकमनन्तानुबन्धाऽ- प्रत्याख्यान- प्रत्याख्यानसञ्ज्वलनरूपैश्चतुर्भिर्भेदैः षोडशभेदा भवन्ति । अथ नोकषायजं मोहनीयं कर्म सप्तविधं नवविधं वा भवति । हास्य १, रति २, अरति ३, भय ४, शोक ५, जुगुप्सा ६, वेदत्रयाणां च सामान्यगणनयैकत्वमेव गम्यते, हास्यादिषट्कं वेदश्चैवं सप्त-विधम् । यदा हि त्रयो वेदाः पुंस्त्रीनपुंसकरूपा गण्यन्ते तदा नवविधं नोकषायजं मोहनीयं भवतीत्यर्थः ॥ ११ ॥ अथायुः कर्मप्रकृतीराह-
नेरइयतिरिक्खाउं, मणुस्साउं तहेव य ।
देवाउयं चउत्थं तु, आउकम्मं चउव्विहं ॥ १२ ॥
आयुःकर्म चतुर्विधं भवति, तथाहि - नैरयिकतिर्यगायुः, निरये भवा नैरयिकाः, नैरयिकाश्च तिर्यञ्चश्च नैरयिकतिर्यञ्चः, तेषामायुनैरयिकतिर्यगायुः, आयुः शब्दस्य प्रत्येकं सम्बन्धः । तथैव्र तृतीयं मनुष्यायुः, च पुनश्चतुर्थं देवायुः, एवं चतुर्विधमायुर्भवति ॥ १२ ॥ अथ नामकर्मप्रकृतीराह
नामकम्मं तु दुविहं, सुहं असुहं च आहियं ।
सुहस्स उ बहूभेया, एमेव असुहस्स वि ॥ १३ ॥