________________
३३, कर्मप्रकृत्याख्यमध्ययनम् ]
[ १९३
मादावुक्तम् । याभ्यां कर्मभ्यां जीवस्य स्वभाव आव्रियते, अतस्तयोर्मुख्यत्वम् । ज्ञानदर्शनयोश्च समानत्वेऽप्यन्तरङ्गत्वेन विशेषतो ज्ञानोपयोगे एव सर्वलब्धीनां प्राप्तिः स्यात्, तस्माद् ज्ञानस्य प्राधान्यादादौ तदावरणमुक्तम् । तदनु सामान्यज्ञानोपयोगत्वाद्दर्शनावरणमुक्तम् । एवं शेषकर्मणामपि विशेषस्तु स्वयमेव ज्ञेयः ॥ २ ॥ ३ ॥
इत्थं कर्मणां मूलप्रकृतीरुक्त्वोत्तरप्रकृतीराह
ज्ञानावरणं कर्म पञ्चविधं कथितम् श्रुतं श्रुतज्ञानावरणं १ । तथा आभिनिबोधिकं मतिज्ञानं, तदावरणं द्वितीयम् २ । तृतीयमवधिज्ञानावरणम् ३ । तथा मनोज्ञानं मनःपर्यायज्ञानावरणं चतुर्थम् ४ । तथा पञ्चमं केवलज्ञानावरणम् ५ ॥ ४ ॥ अथ दर्शनावरणस्य द्वितीयकर्मणो भेदानाह
नाणावरणं पंचविहं, सुयं आभिणिबोहियं । ओहिनाणं च तईयं, मणनाणं च केवलं ॥ ४ ॥
निद्रा सुखजागरणरूपा १, तथैव प्रचला द्वितीया स्थितस्योपविष्टस्य या समायाति २, तृतीया निद्रानिद्रा दुःखप्रतिबोध्या ३, चतुर्थी प्रचलाप्रचला, चलमानस्य याऽऽयाति सा प्रचलाप्रचला ४, तथा पञ्चमी स्त्यानगृद्विनाम्नी ज्ञेया, स्त्याना -पुष्टा गृद्धिर्लेभो यस्या सा स्त्यानगृद्धिः, अथवा स्त्याना संहतोपचिता ऋद्धिर्यस्यां सा स्त्यानद्धिः, स्याउ वासुदेवार्धबलः प्रबलरागद्वेषवांश्च जन्तुर्जायते, अत एव दिनचिन्तितार्थसाधनीयं पञ्चमी भवति ॥ ५ ॥
१ नाक
निद्दा तहेव पयला, निद्दा निद्दा य पयलपयला य ।
तत्तो य थी गिद्धी उ, पंचमा होइ नायव्वा ॥ ५ ॥
"
एवं त्वमुना प्रकारेण नवविकल्पं नवविधं दर्शनावरणं कर्म ज्ञातव्यम् । दर्शनं सम्यक्त्वमावृणोतीति दर्शनावरणं, पञ्च निद्राः पूर्वगाथायामुक्ताः । चत्वारोऽमी भेदाः, ते के ? उच्यन्ते - 'चक्खुमचक्खुओहिस्स दरिसणि' इति, तत्र 'चक्खुमचक्खुओहिस्स' इत्येकपदं चक्षुश्च अचक्षुश्चावधिश्च चक्षुरचक्षुरवधिस्तस्य चक्षुरचक्षुरवधेरावरणम्, चक्षुरचक्षुरवधेरित्यत्र प्राकृतत्वाद् द्वन्द्वे एकत्वं पुंस्त्वम् तथा दर्शने रूपसामान्यग्रहणे यदावरणम्, च पुनः केवले - केवलज्ञाने यदावरणम्, एवं नवविधम् । चक्षुषा दृश्यते ज्ञायते इति दर्शनं, तदावृणोत्याच्छादयतीति चक्षुर्दर्शनावरणम् । तथा चक्षुषोऽन्यदचक्षुः श्रोतनक्रेरसनास्पर्शरूपमिन्द्रियचतुष्कं, तेनाचक्षुषा दृश्यते इत्यचक्षुर्दर्शनं, तदावृणोतीत्यचक्षुर्दर्शनावरणम् ।
चक्खुमचक्खुओहिस्स, दरिसणे केवले य आवरणे । एवं तु नवविगप्पं, नायव्वं दरिसणावरणं ॥ ६॥