________________
मोक्षमार्गीयाख्यमध्ययनम् ]
[ १०७
आधेयत्वेनाश्रिता एकद्रव्याश्रितास्ते गुणा उच्यन्ते । इत्यनेन ये केचिद् द्रव्यमेवेच्छन्ति, तद्व्यतिरिक्तान् रूपादीन् नेच्छन्ति, तेषां मतं निराकृतम्, तस्माद्रूपादीनां गुणानां द्रव्येभ्योऽभेदोऽप्यस्ति । तु पुनः पर्यायाणां नवपुरातनादिरूपाणां भावानामेतल्लक्षणं ज्ञेयम् । तल्लक्षणं किं ? पर्याया ह्युभयाश्रिता भवेयुः, उभयोर्दव्यगुणयोराश्रिता उभयाश्रिताः, द्रव्येषु नवीननवीनपर्याया नाम्नाऽऽकृत्या च भवन्ति । गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षं दृश्यन्ते एव ॥ ६ ॥
पूर्व द्रव्यभेदानाह
२८,
धम्मो १ अधम्मो २ आगासं ३, कालो ४ पुग्गल ५ जंतवो । एस लोगुत्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥ ७ ॥
धर्म इति धर्मास्तिकायः १, अधर्म इत्यधर्मास्तिकायः २, आकाशमित्याकाशास्तिकायः ३, कालः समयादिरूपः ४, पुग्गलत्ति' पुद्गलास्तिकाय: ५, जन्तव इति जीवाः ६, एतानि षट् द्रव्याणि ज्ञेयानीत्यन्वयः । एष इति सामान्यप्रकारेणेत्येवंरूप उक्तः षद्द्रव्यात्मको लोको जिनैः प्रज्ञप्तः कथितः । कीदृशैर्जिनैः ? वरदर्शिभिः सम्यक् यथास्थितवस्तुरूपज्ञैः ॥७॥
धर्मादिभेदानाह
धम्मो १ अधम्मो २ आगासं ३, दव्वं इक्किक्कमाहियं । अताणि यदव्वाणि, कालो पुग्गल जंतवो ॥ ८ ॥
धर्म: १, अधर्म: २, आकाशं ३, दव्यमिति प्रत्येकं योज्यम् । धर्मद्रव्यमधर्मद्रव्यमाकाशदव्यं चेत्यर्थः । एतद् दव्यत्रयमेकैकमित्येकत्वयुक्तमेव तीर्थकरै-राख्यातम्, अग्रेतनानि त्रीणि द्रव्याण्यनन्तानि स्वकीयस्वकीयानन्तभेदयुक्तानि भवन्ति । तानि त्रीणि द्रव्याणि कानि ? कालः समयादिरनन्तः, अतीतानागताद्यपेक्षया, पुद्गला अप्यनन्ताः, जन्तवो - जीवा अप्यनन्ता एव ॥ ८ ॥
अथ षद्द्रव्याण लक्षणमाह
लक्खणो उधम्मो, अहम्मो ठाणलक्खणो ।
भायणं सव्वदव्वाणं, नहं उग्गहलक्खणं ॥ ९ ॥
धर्मो-धर्मास्तिकायो गतिलक्षणो ज्ञेयः लक्ष्यते ज्ञायतेऽनेनेति लक्षणम् । एकस्माद्देशाज्जीवपुद्गलयोर्देशान्तरं प्रति गमनं गतिः, गतिरेव लक्षणं यस्य स गतिलक्षणः । अधर्मोऽधर्मास्तिकायः स्थितिलक्षणो ज्ञेयः, स्थितिः स्थानं गतिनिवृत्तिः, सैव लक्षणमस्त स्थानलक्षणोऽधर्मास्तिकायो ज्ञेयः, स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्येण ज्ञायते सोऽधर्मास्तिकायः । यत्पुनः सर्वद्रव्याणां जीवादीनां भाजनमाधाररूपं नभआकाशमुच्यते, तच्च नभोऽवगाहलक्षणम् अवगाढुं प्रवृत्तानां जीवपुद्गलानामालम्ब भवतीत्यवगाहोऽवकाशः, स एव लक्षण यस्य तदवगाहलक्षणं नभ उच्यते ॥ ९ ॥