SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३२० ] [ उत्तराध्ययनसूत्रे अहं देवलोकाच्च्युतः सन् मानुष्यं भवमागत इति संज्ञिज्ञाने समुत्पन्ने सति पुराणकंप्राचीनं जातिस्मरणमभूदिति शेषः । संज्ञिनो गर्भजपञ्चेन्द्रियस्य ज्ञानं संज्ञिज्ञानम्, तस्मिन् संज्ञिज्ञाने ॥ ८ ॥ 1 जाईसरणे समुप्पन्ने, मियापुत्ते महड्डिए । सरई पोराणियं जाई, सामण्णं च पुरा कयं ॥ ९॥ I मृगापुत्रो महर्द्धिको राज्यलक्ष्मीयुक्तः पौराणिक प्राचीनां जातिं स्मरति । किं स्मरति ? मया श्रामण्यं चारित्रं पुरा कृतम्, पूर्वं पालितमभूत् । क्व सति ? जातिस्मरणे ज्ञाने समुत्पन्ने सति - सञ्जाते सति ॥ ९ ॥ इत्यत्र पाठान्तरमस्ति, गाथायाः पुनरुक्तित्वात् । विसएस अरज्जंतो, रज्जंतो संजमंमि य । अम्मापउरं उवागम्म, इमं वयणमब्बवी ॥ १० ॥ - - मृगापुत्र: 'अम्मापिरं' मातापितरमुपागम्य समीपमागत्येदं वचनमब्रवीत् । किं कुर्वन् ? विषयेष्वरजन् विषयेभ्यो विरक्तो भवन् च पुनश्चारित्रे संयमे रजन् - साधुमार्गे प्रीतिं कुर्वन्नित्यर्थः ॥ १० ॥ सुयाणि मे पंच महव्वयाणि, नरएसु दुक्खं च तिरिक्खजोणिसु । निव्विण्णकामो मि महन्नवाओ, अणुजाणह पव्वइस्सामि अम्मो ॥ ११ ॥ हे पितरौ ! 'मे' मया पञ्च महाव्रतानि प्राग्जन्मनि श्रुतानि, नरकेषु पुनस्तिर्यग्योनिषु दुःखं भुक्तमभूत् । ततोऽहं निर्विण्णकामोऽस्मि - निवृत्तविषयाभिलाषोऽस्मि महार्णवात्संसारसमुद्रात् प्रव्रजिष्यामि - निस्तरिष्यामि । यूयमतो मामनुजानीत - आज्ञां दत्त ॥ ११ ॥ अम्माताय मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुयविवागा, अणुबंधहावा ॥ १२ ॥ पितरौ ! मया पूर्वं भोगा भुक्ताः । कीदृशा भोगाः ? विषफलोपमाः, विषफलैरुपमीयन्ते इति विषफलोपमाः । पूर्वं भोगसमये मधुराः, परं पश्चात्कटुकविपाकाः, कटुको विपाको येषां ते कटुकविपाकाः, प्रान्ते दुःखदा इत्यर्थः । अथ पुनः कीदृशाः ? अनुबन्धदुःखावहा अनुबन्धं निरन्तरं दुःखस्य आवहा -दायकाः, अविच्छिन्नदुःखदायिनः ॥ १२ ॥ इमं सरीरं अणिच्चं, असुई असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ॥ १३ ॥ हे पितराविमं शरीरमनित्यमशाश्वतम्, अशुच्यपवित्रं च वर्तते । पुनरिदं शरीरमशुचिसम्भवमशुचिशुक्ररेतः सम्भूतम् । पुनरिदं शरीरमशाश्वतावासम्, अशाश्वतोऽनित्य आवासो
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy