SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ अष्टादशं संयतीयाख्यमध्ययनम् १८] [३१७ दशसागरोपमस्थितिको देवो बभूव । ततश्च्युतश्च श्रेष्ठिकुले वाणिजग्रामे पुत्रत्वेनोत्पन्नः । तत्र सुदर्शन इति कृतनामोन्मुक्तबालभावः श्रमणस्य श्रीमहावीरस्यान्तिके प्रव्रजितः । क्रमेण सिद्धश्चेति महाबलकथा ॥१६॥ कहं धीरे अहेऊहिं, उम्मत्तु व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ॥ ५२ ॥ हे मुने ! एते भरतादयः शूरा - धैर्यवन्तः, पुनदृढपराक्रमाश्च-संयमे स्थिरवीर्यभाजो बभूवुरिति शेषः । किं कृत्वा ? विशेषं मिथ्यादर्शिभ्यो जिनमतस्य विशेषं गृहीत्वा मनस्याधाय । तस्मात् हे मुने ! धीरः साधुरहेतुभिः क्रियाः १, अक्रिया २, विनय ३, अज्ञान ४, प्रमुखैः कुत्सितहेतुभिर्विपरीतभाषणैरुन्मत्त इव मद्यपायीव मह्यां-पृथिव्यां कथं चरेत् ? अपि तु स्वेच्छया यथातथा प्रलपनपरायणः सन्नाचरेत् । तस्मात्त्वयापि धीरेण सता तत्रैव मनो निश्चितं विधेयमिति हार्दम् ॥५२॥ अच्चंतनियाणखमा, सच्चा मे भासिया वई। अतरिंसु तरंतेगे, तरिस्संति अणागया ॥ ५३ ॥ हे मुने ! 'मे' मया सत्या'वई' इति सत्या वाक् भाषिता, प्राकृतत्वात्तृतीयायां षष्ठी । जिनशासनमेवाश्रयणीयमित्येवरूपा वाणी मयोक्ता ।अनया वाण्याङ्गीकृतया बहवो जना अतरन्, संसारसमुदं तरन्ति स्म, एकेऽनया वाण्येदानीमपितरन्ति, अनागता अप्यग्रे भाविनो भव्या अप्यनया वाण्या भवोदधिं तरिष्यन्ति। कीदृशास्ते भूतभविष्यद्वर्तमानजनाः ।अत्यन्तनिदानक्षमाः,अत्यन्तं निदानं कर्ममलशोधनं तत्र क्षमाः कर्ममलप्रक्षालनसावधानाः, नितरां दीयते शोध्यते पवित्रीक्रियतेऽनयेति निदानम्, 'दैप्शोधने' इत्यस्य रूपम् ॥५३॥ कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सव्वसंगविणिम्मुक्के, सिद्धे हवइ नीरए ॥५४॥त्तिबेमि ॥ धीरः साधुरहेतुभिः क्रियावाद्यादिकुमतीनां वचोयुक्त्यसत्प्ररूपणालक्षणैमिथ्यात्वस्य कारणैरात्मानं स्वकीयमात्मानं कथं पर्यावासयेत् ? कुत्सितहेतूनामावासमात्मानं कथं कुर्यात् ? अपितुन कुर्यादित्यर्थः । किमित्थं स्थितस्य फलं स्यादित्याह-सर्वसङ्गैर्दव्यभावभेदेन संयोगैः संयोगेभ्यो वा विशेषेण निर्मुक्तः सर्वसङ्गविनिर्मुक्तः सन् साधुः सिद्धो भवति, कर्ममलापहारेण नीरजा निर्मलः स्यादुज्ज्वलो भवेदित्याधुपदेशं दत्वा क्षत्रियमुनिर्महीतले विजहार । संयतमुनिरपि चारित्रं प्रपाल्य मोक्षं प्रापेति सुधर्मास्वामी जम्बूस्वामिनं प्राह-हे जम्बू ! अहं ब्रवीमि, इति - परिसमाप्तौ ॥५४॥ इति संयतीयाख्यमध्ययनम्-१८॥ इति श्रीमदत्तराध्ययनसूत्रार्थदीपिकायामुपाध्यायश्रीलक्ष्मीकीर्तिगणिशिष्यलक्ष्मीवल्लभगणिविरचितायां संयतीयाख्यमध्ययनमष्टादशमर्थतो व्याख्यातम् १८॥ ४१
SR No.022592
Book TitleUttaradhyayan Sutram Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay, Bhagyeshvijay
PublisherBhadrankar Prakashan
Publication Year2001
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy