________________
अणेगरूवे पाणे विहिंसइ ३ ।। सू० ३६ ॥
अस्य ग्रन्थस्योक्तार्थस्यायमर्थोलेशतः प्रदर्श्यते - 'लज्जमाना:' स्वागमोक्तानुष्ठानं कुर्वाणाः सावद्यानुष्ठानेन वा लज्जां कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः ‘पश्ये 'ति संयमानुष्ठाने स्थिरीकरणार्थं शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदर्श्यन्त इति दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति १, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थं जातिमरणमोचनार्थं दुःखप्रति- घातहेतुं यत्करोति तद्दर्शयति-'स' परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति २, 'स' इति यस्यैतदसदाचरणं प्रदर्शितं स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान ' आदानीयं' ग्राह्यं समयग्दर्शनादि 'सम्यगुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिके-ऽनगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम् ?, तद्दर्शयति-‘एष' अग्निसमारम्भः ग्रन्थः-कर्महेतुत्वाद् एष एव मोह एष एव मार एष एव नरकस्तद्धेतुत्वादिति भावः इत्येवमर्थं च गृद्धो लोको यत्करोति तद्दर्शयति-यदिदं विरूपरूपैः शस्त्रैरग्निकर्म समारभते तदारम्भेण चाग्निशस्त्र समारभते तच्चारभमाणोऽन्याननेकरूपान् प्राणिनो विहिनस्तीति ३ ।। कथं पुनरग्नि- समारम्भप्रवृत्ता नानाविधान् प्राणिनो विहिंसन्तीति दर्शयितुमाह
"
9
से बेमि-संति पाणा पुढवीनिस्सिया तणणिस्सिया पत्तणिस्सिया कट्ठनिस्सिया गोमयणिस्सिया कयवरणिस्सिया, संति संपातिमा पाणा आहच्च संपयंति, अगणिं च खलु पुट्ठा एगे संघायमावज्जंति, जे तत्थ संघायमावज्जंति ते तत्थ परियावज्जंति जे तत्थ
श्री आचारांग सत्रम
9
ne)