________________
I
रम्भाः द्विधा परिज्ञाता भवन्ति स एव मुनिः परिज्ञातकर्मा भवति । ब्रवीमीति पूर्ववद् । इति शस्त्रपरिज्ञायां तृतीयोद्देशकः समाप्तः ।। १-३।।
॥ अथ प्रथमाध्ययने चतुर्थः तेजस्कायोद्देशकः || उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके मुनित्वप्रतिपत्तये अप्काय: प्रतिपादितः तदधुना तदर्थमेव क्रमायातस्तेजस्कायप्रतिपादनायायमुद्देशकः समारभ्यते - तस्य चोपक्रमादीनि चत्वार्यनुयोगद्वाराणि वाच्यानि तावद्यावन्नामनिष्पन्ने निक्षेपे तेज उद्देशक इति नाम, तत्र तेजसो निक्षेपादीनि द्वाराणि वाच्यानि, अत्र च पृथिवीविकल्पतुल्यत्वात् केषाञ्चिदतिदेशो द्वाराणामपरेषां तद्विलक्षणत्वात्॰ अपोद्धार इत्येतत् द्वयमुररीकृत्य निर्युक्तिकृद् गाथामाहतेउस्सवि दाराइं ताइं जाई हवंति पुढवीए । नाणंत्ती उ विहाणे परिमाणुवभोगसत्थे य ।। ११६ ।। ‘तेजसोऽपि' अग्नेरपि ‘द्वाराणि' निक्षेपादीनि यानि पृथिव्या: समधिगमेऽभिहितानि तान्येव वाच्यानि, अपवादं दर्शयितुमाह- 'नानात्वं' भेदो विधानपरिमाणोपभोगशस्त्रेषु, तुरवधारणे, विधानादिष्वेव च नानात्वं नान्यत्रेति, चशब्दाल्लक्षणद्वारपरिग्रहः ।। यथाप्रतिज्ञातनिर्वहणार्थमादिद्वारव्याचिख्यासयाऽऽह
दुविहाय तेउजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए पंचेव य बायरविहाणा ।। ११७ ।। स्पष्टा । बादरपञ्चभेदप्रतिपादनायाह
इंगाल अगणि अच्चो जाला तह मुम्मुरे य बोद्धव्वे । बायरतेउविहाणा पंचविहा वण्णिया एए ।। ११८ ।।
दग्धेन्धनो विगतधूमज्वालोऽङ्गारः, इन्धनस्थ : प्लोषक्रियाविशिष्टरूपः तथा विद्युदुल्काऽशनिसङ्घर्षसमुत्थितः सूर्यमणिसंसृतादिरूपश्चाग्निः, दाह्यप्रतिबद्धो ज्वालाविशेषोऽचिः, ज्वाला छिन्नमूलाऽनङ्गारप्रतिबद्धा, प्रविरलाग्निकणानुविद्धं भस्म मुर्मुरः, एते बादरा अग्निभेदाः पञ्च भवन्तीति
श्री आचारांग
सूत्रम्
-
(०८९)