________________
स्वनामग्राहं दर्शयति-अथवोदकं विभूषार्थमनुज्ञातं नः समये, विभूषाकरचरणपायूपस्थमुखप्रक्षालनादिका वस्त्रभण्डकादिप्रक्षालनात्मिका वा, एवं स्नानादिशौचानुष्ठायिनां नास्ति कश्चिद्दोष इति ।। एवं ते परिफल्गुवचस: परिव्राजकादयो निजराद्धान्तोपन्यासेन मुग्धमतीन्विमोह्य किं कुर्वन्तीत्याह
पुढो सत्थेहिं विउट्टन्ति ॥ सू० २८॥
'पृथग्' विभिन्नलक्षणै: नानारूपैरुत्सेचनादिशस्त्रैस्ते अनगारायमाणा: 'विउदृन्ति'त्ति अप्कायजीवान् जीवनाद्व्यावर्त्तयन्ति-व्यपरोपयन्तीत्यर्थः, यदिवा पृथग्विभिन्नैः शस्त्रैरप्कायिकान्विविधं कुट्टन्ति-छिन्दन्तीत्यर्थः, कुठे तो: छेदनार्थत्वात् ।। अधुनैषामागमानुसारिणामागमासारत्वप्रतिपादनायाह
एत्थऽवि तेसिं नो निकरणाए ।। सू० २९ ।।
‘एतस्मिन्नपि' प्रस्तुते स्वागमानुसारेणाभ्युपगमे सति कप्पइणे कप्पइ णे पाउं, अदुवा विभूसाए'त्ति एवंरूपस्तेषामयमागमो यद्बलादप्कायपरिभोगे ते प्रवृत्ता: स स्याद्वादयुक्तिभिरभ्याहत: सन् ‘नो निकरणाए'त्ति नो निश्चयं कर्तुं समर्थो भवति, न केवलं तेषां युक्तयो न निश्चयायालम्, अपि त्वागमोऽपीत्यपिशब्दार्थः, कथं पुनस्तदागमो निश्चयाय नालमिति, अत्रोच्यते, त एवं प्रष्टव्या:-कोऽयमागमो नाम ? यदादेशात्कल्पते भवतामप्कायारम्भः, त आहुः-प्रतिविशिष्ठानुपूर्वविन्यस्तवर्णपदवाक्यसङ्घात आप्तप्रणीत आगम:, नित्योऽकर्तृको वा ?, ततश्चैवमभ्युपगते यो येन प्रतिपन्न आप्तः स निराकर्त्तव्यः, अनाप्तोऽसौ अप्कायजीवापरिज्ञानात् तद्वधानुज्ञानाद्वा भवानिव, जीवत्वं चापां प्राक् प्रसाधितमेव, ततस्तत्प्रणीतागमोऽपि सद्धर्मचोदनायामप्रमाणम् अनाप्तप्रणीतत्वाद्, रथ्यापुरुषवाक्यवत्, अथ नित्योऽकर्तुक: समयोऽभ्युपगम्यते ततो नित्यत्वं दुष्प्रतिपादं, यतः शक्यते वक्तुं-भवदभ्युपगत: समय: सकर्तृको वर्णपदवाक्यात्मकत्वात्, विधिप्रतिषेधात्मकत्वात्, उभयसम्मतसकर्तृकग्रन्थसन्दर्भवदिति, अभ्युपगम्य वा ब्रूमः- अप्रमाणमसौ, नित्यत्वादाकाशवत्,