________________
माणसण्णा मायासण्णा लोभसण्णा ओहसण्णा लोगसण्ण'त्ति (कति भदन्त ! संज्ञाः प्रज्ञप्ता: ?, गौतम ! दश संज्ञाः प्रज्ञप्ताः, तद्यथाआहारसंज्ञा भयसंज्ञा मैथुनसंज्ञा परिग्रहसंज्ञा क्रोधसंज्ञा मानसंज्ञा मायासंज्ञा लोभसंज्ञा ओघसंज्ञा लोकसंज्ञा ।) आसां च प्रतिषेधे स्पष्टो दोष:, अतो नोशब्देन प्रतिषेध-नमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि-नोघट इत्युक्ते तथा घटाभावमात्रं प्रतीयते, यथा प्रकरणादिप्रसक्तस्य विधानं, (क्ते घटाभावमात्रं प्रतीयते अर्थप्रसक्तनिषेधेन चाप्रसक्तस्य प्र.) स पुनर्विधीयमानः प्रतिषे-ध्यावयवो ग्रीवादिः प्रतिषेध्यादन्यो वा पटादिः प्रतीयत इति, तथा चोक्तम्-'प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः । स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्याद् ॥१॥ इति, एवमिहाषि न सर्वसंज्ञानिषेधः, अपितु विशिष्टसंज्ञानिषेधो, ययाऽऽत्मादिपदार्थस्वरूपं गत्यागत्यादिकं ज्ञायते तस्या निषेध इति ।। साम्प्रतं नियुक्तिकृत्सूत्रावयवनिक्षेपार्थमाह____दव्वे सच्चित्ताई भावेऽणुभवणजाणणा सण्णा । मति होइ जाणणा पुण अणुभवणा कम्मसंजुत्ता ॥३८ ।। ____संज्ञा नामादिभेदाच्चतुर्द्धा, नामस्थापने क्षुण्णे, ज्ञशरीरभव्यशरीरव्यतिरिक्ता सचित्ताचित्तमिश्रभेदात्त्रिधा, सचित्तेन हस्तादिद्रव्येण पानभोजनादिसंज्ञा अचित्तेन ध्वजादिना मिश्रेण प्रदीपादिना संज्ञानं-संज्ञा अवगम इति-कृत्वा, भावसंज्ञा पुनर्द्विधा-अनुभवनसंज्ञा ज्ञानसंज्ञा च, तत्राल्पव्याख्येयत्वा-त्तावत् ज्ञानसंज्ञा दर्शयति-'मइ होइ जाणणा पुण'त्ति मननं मति:-अवबोधः सा च मतिज्ञानादिः पञ्चधा, तत्र केवलसंज्ञा क्षायिकी शेषास्तु क्षायोपशमिक्यः, अनुभवनसंज्ञा तु स्वकृतकर्मोदयादिसमुत्था जन्तोर्जायते, सा च षोडशभेदेति दर्शयतिआहार भय परिग्गह मेहण सुख दुक्ख मोह वितिगिच्छा । कोह माण माय लोहे सोगे लोगे य धम्मोहे ॥३९ ।। आहाराभिलाष आहारसंज्ञा, सा च तैजसशरीरनामकर्मोदया
श्री आचारांग सूत्रम्
(०२७)