________________
स्यापि नानाविधोपक्रमजनितं स्वपरसमुत्थं वा शरीरमन:समाश्रयं दुःखं सुखं वा वेत्ति, स्वप्रत्यक्षतया परत्राप्यनुमीयते, यस्य पुनः स्वात्मन्येव विज्ञानमेवंविधं न समस्ति कुतस्तस्य बहिर्व्यवस्थितवायुकायादिष्वपेक्षा ?, यश्च बहिर्जानाति सोऽध्यात्म यथावदवैति, इतरतराव्यभिचारादिति । परात्मपरिज्ञानाच्च यद्विधेयं तदर्शयितुमाह- ‘एयं तुलमन्नेसिमित्यादि, एतां तुलां यथोक्तलक्षणाम्, अन्वेषयेद्गवेषयेदिति, का पुनरसौ तुला ?, यथाऽऽत्मानं सर्वथा सुखाभिलाषितयां रक्षसि तथाऽपरमपि रक्ष, यथा परं तथाऽऽत्मानमित्येतां तुलां तुलितस्वपरसुखदुःखानुभवोऽन्वेषयेद्एवं कुर्यादित्यर्थः, उक्तं च- ‘कट्टेण कंटएण व पाए विद्धस्स वेयणट्टस्स । जह होइ अनिव्वाणी सव्वत्थ जिएसुं तं जाण ॥१॥' (काष्ठेन कण्टकेन वा पादे विद्धस्य वेदनात्तस्य । यथा भवत्यनिर्वाणी (असाता) सर्वत्र जीवेषु तां जानीहि ॥१॥) तथा मरिष्यामीति यद् दुःखं, पुरुषस्योपजायते । शक्यस्तेनानुमानेन, परोऽपि परिरक्षितुम् ॥१॥' अतश्च यथाऽभिहिततुलातुलितस्वपरा नराः (स्वपरान्तरा:) स्थावरजङ्गमजन्तुसङ्घातसंरक्षणायैव प्रवर्त्तन्ते, कथमिति दर्शयति
इह संतिगया दविया णावकंखंति जीविउं ।।सू० ५७ ॥
'इह' एतस्मिन् दयैकरसे जिनप्रवचने शमनं शान्तिः -उपशम: प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग् दर्शनज्ञानचरणकलापः शान्तिरूच्यते, निराबाधमोक्षाख्यशान्तिप्राप्तिकारणत्वात्, तामेवंविधां शान्तिं गता:-प्राप्ताः शान्तिंगताः, शान्तौ वा स्थिता: शान्तिगता:, द्रविका नाम रागद्वेषविनिर्मुक्ताः, द्रव:-संयम: सप्तदशविधः कर्मकाठिन्यद्रवणकारित्वाद्विलयहेतुत्वात् स येषां विद्यते ते द्रविकाः, नावकाङ्क्षन्ति-न वाञ्छन्ति नाभि-लषन्तीत्यर्थः, किं नावकाङ्क्षन्ति ? 'जीवीतुं' प्राणान् धारयितुं, केनोपायेन जीवितुं नाभिकाङ्क्षन्ति ?, वायुजीवोपमर्दनेनेत्यर्थः, शेषपृथिव्यादिजीवकायसंरक्षणं तु पूर्वोक्तमेव, समुदायार्थस्त्वयम्-इहैव जैने प्रवचने यः संयमस्तद्व्यवस्थिता
श्री आचारांग सूत्रम्
(१६)