________________
जाईमरणमोयणाए दुक्ख-पडिघायहेउं से सयमेव तसकायसत्थं समारभति अण्णेहिं वा तसका-यसत्थं समारंभावेइ, अण्णे वा तसकायसत्थं समारंभमाणे समणुजाणइ, तं से अहियाए तं से अबोहीए, से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं अंतिए इहमेगेसिं णायं भवति-एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इच्चत्थं गड्ढिए लोए जमिणं विरूवरूवेहिं सत्थेहिं तसकायसमारंभेणं तसंकायसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसंति ।।सू० ५२॥
पूर्ववत् व्याख्येयं, यावत् ‘अण्णे अणेगरूवे पाणे विहिंसई'त्ति ।। यानि कानिचित्कारणान्युद्दिश्य त्रसवधः क्रियते तानि दर्शयितुमाह
से बेमि अप्पेगे अच्चाए हणंति, अप्पेगे अजिणाए वहंति, अप्पेगे मंसाए वहंति, अप्पेगे सोणियाए वहंति, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए बालाए सिंगाए विसाणाए दंताए दाढाए णहाए ण्हारुणीए अट्ठीए अट्टिमिंजाए अट्ठाए अणट्ठाए, अप्पेगे हिंसिंसु मेत्ति वा वहंति, अप्पेगे हिंसंति मेत्ति वा वहंति, अप्पेगे हिंसिस्संति मेत्ति वा वहति ।।सू० ५३॥
तदहं ब्रवीमि यदर्थं प्राणिनस्तदारम्भप्रवृत्तैर्यापाद्यन्त इति, अप्येकेऽर्चाय घ्नन्ति, अपिरुत्तरापेक्षया समुच्चयार्थः, 'एके' केचन तदर्थत्वेनातुराः, अर्च्यतेऽसावाहारालङ्कारविधानैरित्यर्चा-देहस्तदर्थं व्यापादयन्ति, तथाहि-लक्षणवत्पुरुषमक्षतमवतयङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीर्यति, तथा अजिनार्थ-चित्रकव्याघ्रादीन् व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छ-पुच्छवाल-शृङ्गविषाणदन्तदंष्ट्रानख-स्नाय्वस्थ्यस्थिमिञादिष्वपि वाच्यं, मांसार्थं सूकरादयः, त्रिशूलालेखार्थं
श्री आचारांग सूत्रम्
(१२८)