________________
उपपातजाः, अथवा उपपाते भवा औपपातिका:-देवा नारकाश्च, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं सम्मूर्छनग पपाता जन्म' (तत्त्वार्थ०अ०२ सूत्र ३२) रसस्वेदजोद्भिजानां सम्मूर्छनजान्त:पातित्वात् अण्डजपोतजजरायुजानां गर्भजान्त: पातित्वात् देवनारकाणामौपपातिकान्त:पातित्वात् इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्या:, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्ति-त्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैर्विरहित: संसार: सम्भवतीति, एतदेव दर्शयति-‘एस संसारेत्ति पवुच्चति' एष:-अण्डजादिप्राणिकलाप: संसार: प्रोच्यते, नातोऽन्यस्त्रसानामुत्पत्तिप्रकारोऽस्तीत्युक्तं भवति ।। कस्य पुनरत्राष्टविधभूतग्रामे उत्पत्तिर्भवतीत्याह
मंदस्सावियाणओ ॥ सू० ४९ ।।
मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिर्बाल: कुशास्त्रवासितबुद्धिर्वा, अयमपि सद्बुद्धेरभावाबाल एव, इह भावमन्देनाधिकारः, 'मन्दस्ये'ति बालस्याविशिष्टबुद्धेः अत एव अविजानतोहिताहितप्राप्तिपरीहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ।। यद्येवं ततः किमित्याह
निज्झाइत्ता पडिलेहिता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसि भुयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरि-निव्वाणं महब्भयं दुक्खंति बेमि, तसंति पाणा पदिसो दिसासु य ॥ सू० ५०॥
एवमिमं त्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निर्ध्याय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति । पूर्वं च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति
- श्री आचारांग सूत्रम्
(१२५)