________________
क्रियोपलब्धिः, न चैतदभिहिततरुसम्बन्धि क्रियाजालं ज्ञानमन्तरेण घटते, तस्मात्सिद्ध चित्तवत्त्वं वनस्पतेः इति । तथा यथेदं मनुष्यशरीरं छिन्नं म्लायति तथेदमपि छिन्नं म्लायति, मनुष्यशरीरं हि हस्तादि छिन्नं म्लायतिशुष्यति, तथा तरुशरीरमपि पल्लवफल-कुसुमादि छिन्नं शोषमुपगच्छत् दृष्टं, न चाचेतनानामयं धर्म इति । तथा यथेदं मनुष्यशरीरं स्तनक्षीरव्यजनौदनाद्याहाराभ्यवहारादाहारकं तथैतदपि वनस्पतिशरीरं भूजलाद्याहाराभ्यवहारकं, न चैतदाहारकत्वमचेतनानां दृष्टम्, अतस्तद्भावात्सचेतनत्वमिति । तथा यथेदं मनुष्यशरीरमनित्यकं-न सर्वदाऽवस्थायि तथैतदपि वनस्पतिशरीरमनित्यं नियतायुष्कत्वात्, तथाहि-अस्य दश वर्षसहस्राणि उत्कृष्टमायुः । तथा यथेदं मनुष्यशरीरमशाश्वतंप्रतिक्षणमावीचीमरणेन मरणात् तथैतदपि वनस्पतिशरीरमिति । तथा यथेदमिष्टानिष्टाहारादिप्राप्त्या चयापचयिक' वृद्धिहान्यात्मकं तथैतदपि इति । तथा यथेदं मनुष्यशरीरं विविधपरिणाम:-तत्तद्रोगसम्पर्कात् पाण्डुत्वोदरवृद्धिशोफकृशत्वाङ्गुलिनासिकाप्रवेशादिरूपो बालादिरूपो वा, तथा रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिबलोपचयादिरूपो विपरिणाम: तद्धर्मकंतत्स्वभावक तथैतदपि वनस्पतिशरीरं तथा विधरोगोद्भवात्पुष्पपत्रफलत्वगाद्यन्यथाभवनात् तथा विशिष्टदौहृदप्रदानेन पुष्पफलाद्युपचयाद्विपरिणामधर्मकम् । एवमनन्तरोक्तधर्मकलापसद्भावादसंशयं गृहाणैतत्सचेतनास्तरव इति । एवं वनस्पतेश्चैतन्यं प्रदर्श्य तदारम्भे बन्धं तत्परिहाररूपविरत्यासेवनेन च मुनित्वं प्रतिपादयन्नुपसञ्जिहीर्षु राह
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिण्णाता भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिण्णाया भवंति, तं परिण्णाय मेहावी णेव सयं वणस्सइसत्थं समारंभेजा णेवण्णेहि वणस्सइसत्थं समारंभावेज्जा णेवऽण्णे वणस्सइसत्थं समारंभंते समणुजाणेज्जा, जस्सेते वणस्सतिसत्थसमारंभा परिण्णाया भवंति से हु मुणी परिण्णायकम्मे त्ति बेमि ॥ सू० ४७ ॥ पञ्चम उद्देशकः ॥१-५॥
श्री आचारांग सूत्रम्
(११७)