SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ सम्यग्ज्ञानपूर्विका हि क्रिया फलवतीति दर्शितं भवति । पुनरत्रैवाह'अभयं विदित्ता' अविद्यमानं भयमस्मिन्सत्त्वानाभित्यभयः-संयमः, स च सप्तदशविधानस्तं चाभयं-सर्वभूतपरिपालनात्मकं संसारसागरान्निर्वाहकं विदित्वा वनस्पत्यारम्भानिवृत्तिविधेयेति । एतदेव दर्शयितुमाह-तं जे नो करए' इत्यादि, तं' वनस्पत्यारम्भं 'यो' विदिततदारम्भकटुकविपाक: नो कुर्यात्, तस्य प्रतिविशिष्टेष्टफलावाप्तिर्नान्यस्यान्धमूढ्या प्रवर्त्तमानस्य, अभिलषितविप्रकृष्टस्थानप्राप्तिप्रवृत्तान्धक्रियाव्याघातवदिति मन्तव्यं, ज्ञानमपि क्रियाहीनं न मोक्षाय, गृहान्तर्दह्यमाननिनक्षुपगुचक्षुर्ज्ञानवदिति, एवं च ज्ञात्वाऽभ्युपेत्य च तत्परिहार: कर्त्तव्य इति दर्शितं भवति । एवं यः सम्यग्ज्ञानपूर्विकां निवृत्तिं करोति स एव समस्तारम्भनिवृत्त इति दर्शयति-‘एसोवरए'त्ति एष एव सर्वस्मादारम्भावनस्पतिविषयादुपरतो यो यथावत् ज्ञात्वाऽऽरम्भं न करोतीति, स पुनरेवंविधनिवृत्तिभाक्किं शाक्यादिष्वपि सम्भवत्युतेहैव प्रवचन इति दर्शयति-‘एत्थोवरए'त्ति एतस्मिन्नेव जैनेन्द्रे प्रवचने परमा-र्थत उपरतो नान्यत्र, यथा-प्रतिज्ञातनिरवद्यानुष्ठायित्वादुपरतव्यपदेशभाग् भवति न शेषाः शाक्यादयः, तद्विपरीतत्वाद्, एष एव च सम्पूर्णानगारव्यपदेशमश्नुते इति दर्शयति‘एस अणगारेत्ति पवुच्चई' 'एषः' अतिक्रान्तसूत्रार्थव्यवस्थितोऽविद्यमानागारोऽनगार: प्रकर्षेण उच्यते प्रोच्यते इति, किंकृतः प्रकर्षः ?, अनगारव्यपदेशकारणभूतगुणकलापसम्बन्धकृत: प्रकर्षः, इतिशब्दोऽनगारव्यपदेशकारणपरिसमाप्तिद्योती, एतावदनगारलक्षणं नान्यदिति, ये पुन: प्रोज्झितपारमार्थिकानगारगुणा: शब्दादीन्विषयानङ्गीकृत्य प्रवर्त्तन्ते ते तु नापेक्षन्ते वनस्पतीन् जीवान्, यतो भूयांस: शब्दादयो गुणा वनस्पतिभ्य एव निष्पद्यन्ते, शब्दादिगुणेष्वेव वर्तमाना रागद्वेषविषमविषविघूर्णमानलोललोचना नरकादिचतुर्विधगत्यन्त:पातिनो बोधव्या:, तदन्त:पातिन एव च शब्दादिविषयाभिष्वङ्गिणो भवन्तीति ।। अस्यार्थस्य प्रसिद्धये गतप्रत्यागतलक्षणमितरेतरावधारण-फलं सूत्रमाह- .. श्री आचारांग सूत्रम् (१११)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy