SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ रानुयोग: सूत्रादनुपश्चादर्थस्य योगोऽनुयोगः, सूत्राध्ययनात्पश्चादर्थकथनमिति भावना, अणोर्खा लघीयसः सूत्रस्य महताऽर्थेन योगोऽनुयोगः, स चामीभिा-रैरनुगन्तव्यः, तद्यथा-निक्खेवेगट्ठनिरुत्ति-विहिपवित्ती य केण वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो ॥१॥ तत्र निक्षेपो- नामादिः सप्तधा, नामस्थापने क्षुण्णे, द्रव्यानुयोगो द्वेधाआगमतो नोआगमतश्च, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तोऽनेकधा, द्रव्येण-सेटिकादिना द्रव्यस्यआत्मपरमाण्वादेर्द्रव्ये-निषद्यादौ वा अनुयोगो द्रव्या-नुयोगः, क्षेत्रानुयोग: क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोग: क्षेत्रानुयोगः, एवं कालेन कालस्य काले वाऽनुयोग: कालानुयोगः, वचनानुयोग एकवचनादिना, भावानुयोगो द्वेधाआगमतो नोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तो, नोआगम-तस्तु औपशमिकादिभावै:, तेषां चानुयोगोऽर्थकथनं भावानुयोगः, शेषमावश्यकानुसारेण ज्ञेयं, केवलमिहानुयोगस्य प्रस्तुतत्वात्तस्य चाचार्याधीनत्वात् के ने ति द्वारं विवि यते, तथो पक्र मादीनि च द्वाराणि प्रचुरतरोपयोगित्वात्प्रदर्श्यन्ते, तत्र केनेति कथम्भूतेन ?, यथाभूतेन च सूरिणा व्याख्या कर्त्तव्या तथा प्रदर्श्यते- 'देसकुलजाइरूवो संघयणी धिइजुओ अणासंसा । अविकत्थणो अमाई थिर-परिवाडी गहियवक्को ॥१॥ जियपरिसो जियनिद्दो मज्झत्थो दासकालभावन्नू । आसन्नलद्धपइभो णाणाविहदेसभासण्णू ।।२।। पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउकारण-णयणिउणो गाहणाकुसलो ।।३।। ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ।।४।। आर्यदेशोद्भूतः सुखावबोधवचनो भवतीत्यतो देशग्रहणं, प्रतृकं कुलभिक्ष्वाक्वादि ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति, मातृकी जातिस्तत्संपन्नो विनयादिगुणवान् भवति, यत्राकृतिस्तत्र गुणा वसन्ती'ति रूपग्रहणं, संहननधृतियुतो व्याख्यानादिषु न खेदमेति, अनाशंसी श्रोतृभ्यो न श्री आचारांग सूत्रम् (०१०)
SR No.022578
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorDevchandrasagarsuri
PublisherVardhaman Jain Agam Tirth
Publication Year2012
Total Pages146
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy