________________
समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ।
छठे भंते ! वए उवढिओमि सव्वाओ राईभोयणाओ वेरमणं ६ । सू० ८।
अहावरे इत्यादि, अथापरस्मिन् षष्ठे व्रते रात्रिभोजनाद्विरमणं, सर्वं भदन्त ! रात्रिभोजनं प्रत्याख्यामीति पूर्ववत्, तद्यथा-अशनं वा पानं वा खाद्यं वा स्वाद्यं वा, अश्यत इति अशनं-ओदनादि, पीयत इति पानं-मुद्वीकापानमित्यादि, खाद्यत इति खाद्यं-खजूरादि, स्वाद्यत इति स्वाद्यं-तांबूलादि, 'नेव सयं राई भुंजिज्जा' नैव स्वयं रात्रौ भुजे, नैवान्यै रात्रौ भोजयामि, रात्रौ भुञ्जानानप्यन्यान्नैव समनुजानामीत्येतद्यावज्जीवमित्यादि च भावार्थमधिकृत्य पूर्ववत् । एतच्च रात्रि- भोजनविरमणं प्रथम-चरमतीर्थकरतीर्थयोः ऋजुजडवक्रजडपुरुषापेक्षया मूलगुणत्वख्यापनार्थं पंचममहाव्रतोपरि पठितं, मध्यमतीर्थकरतीर्थेषु पुनः ऋजुप्रज्ञपुरुषापेक्षयोत्तरगुणवर्ग इति ।८।
समस्तव्रताभ्युपगमख्यापनायाहइच्चेइयाइं पंच महव्वयाइं राइभोयणवेरमणछट्ठाई ।
अत्तहियट्ठयाए उवसंपज्जित्ताणं विहरामि । सू० ९ । : "इच्चेइयाइं पंचमहव्वयाई' इत्यादि, इत्येतानि अनन्तरोदितानि पञ्च महावानि रात्रिभोजन-विरमणपठानि, किमित्याह-आत्महितार्थे आत्महितो-मोक्षस्तदर्थ, अनेनान्यार्थ तस्यतो व्रताभावमाह तदभिलाषानुमत्या हिंसादावनुमत्यादि-भावात्, उपसम्पच सामीप्येनाङ्गीकृत्य व्रतानि 'विहरामि' सुसाधुविहारेण, तदभावेऽङ्गीकृतानामपि व्रतानामभावात्, दोषाश्च हिंसादिकर्तृणामल्पायु-जिह्वाच्छेद-दारिद्य्-पण्डक-दुःखितत्वादयो वाच्या इति ।९।
श्रीदशवैकालिकम् ।