________________
ज्ञात्वा सम्यगाऽऽगमोक्तेन विधिना भूयः पश्येत् अनागतं न प्रतिबन्धं कुर्यात्-आगामिकालविषयं नाऽसंयमप्रतिबन्धं करोति ॥५१२॥
कथमित्याहजत्थेव पासे कइ दुप्पउत्तं,
कारण वाया अदु माणसेणं । तत्थेव धीरो पडिसाहरिज्जा,
आइन्नओ खिप्पमिव क्खलीणं ॥५१३॥ जत्थेवेति, यत्रैव पश्यत्युक्तवत्परात्मदर्शनद्वारेण क्वचित्संयमस्थानावसरे धर्मोपधिप्रत्युपेक्षणादौ दुष्प्रयुक्तं-दुर्व्यवस्थितमात्मानमिति गम्यते, केने-त्याह-कायेन वाचा अथ मानसेन-मन एव मानसं, करणत्रयेणेत्यर्थः, तत्रैव-तस्मिन्नेव संयमस्थानावसरे धीरो-बुद्धिमान् प्रतिसंहरेत्-प्रतिसंहरति य आत्मानं, सम्यग्विधि प्रतिपद्यत इत्यर्थः, निदर्शनमाह-आकीर्णो जवादिभिर्गुणैर्जात्योऽश्व इति गम्यते, असाधारणविशेषणात्, तच्चेदं-क्षिप्रमिव-शीघ्रमेव खलिनं-कविकमिव, यथा जात्योऽश्वो नियमितगमननिमित्तं शीघ्रं खलिनं प्रतिपद्यते, एवं यो दुष्प्रयोगपरित्यागेन खलिनकल्पं सम्यग्विधि, एतावताऽशेन दृष्टान्त इति ॥५१३॥
यः पूर्वरात्रेत्याद्यधिकारोपसंहारायाहजस्सेरिसा जोग जिइंदिअस्स,
धिईमओ सप्पुरिसस्स निच्चं । तमाहु लोए पडिबुद्धजीवी,
सो जीअई संजमजीविएणं ॥५१४॥ जस्सेरिसत्ति, यस्य साधोरीदृशाः स्वहितालोक(च)नप्रवृत्तिरूपा योगा-मनोवाक्कायव्यापारा जितेन्द्रियस्य-वशीकृतस्पर्शनादीन्द्रियकलापस्य
श्रीदशवैकालिकम् ।
२१९