________________
बोहित्थसितपटतुल्यानि, एतदुक्तं भवति-यथा हयादीनामुन्मार्गप्रवृत्तिकामानां रश्म्यादयो नियमनहेतवः तथा एतान्यपि संयमादुन्मार्गप्रवृत्तिकामानां भव्यसत्त्वानामिति, यतश्चैवमतः सम्यक् प्रत्युपेक्षितव्यानि भवन्ति, खलुशब्दोऽवधारणे, योगात् सम्यगेव संप्रत्युपेक्षितव्यानि एवेत्यर्थः । ।
तद्यथेत्यादि-तद्यथेत्युदाहरणोपन्यासार्थः, हंभो ! दुःषमायां दुष्प्रजीविन इति, हंभोशिष्यामन्त्रणे, दुष्षमायां-अधमकालाख्यायां कालदोषादेव दुःखेन-कृच्छेण प्रकर्षेणोदारभोगापेक्षया जीवितुं शीला दुष्प्रजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनां अपि अनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् १ । ___ तथा लघव इत्वरा गृहिणां कामभोगाः, दुष्षमायामिति वर्त्तते, सन्तोऽपि लघवः-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः इत्वरा-अल्पकालाः गृहिणां-गृहस्थानां कामभोगाः-मदनकामप्रधानाः शब्दादयो विषया विपाककटवश्च, न देवानामिव विपरीताः, अतः किं गृहाश्रमेणेति संप्रत्युपेक्षितव्यमिति द्वितीयं स्थानम् २ । ___ तथा भूयश्च स्वातिबहुला मनुष्याः दुष्षमायामिति वर्त्तते एव, पुनश्च स्वातिबहुला मायाप्रचुरा मनुष्या इति प्राणिनो, न कदाचित् विश्रम्भहेतवोऽमी, तद्रहितानां च कीदृक् सुखं ?, तथा तद्वन्धहेतुत्वेन दारुणतरो बन्ध इति किं गृहाश्रमेणेति, संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ३ ! पाठान्तरं वा तथा-भूयश्च सातबहुला मनुष्याः, भुक्तेष्वपि कामभोगेषु पुनरपि सुखाभिलाषिण एव मनुष्याः, अतः किं कामभोगैः ? इति संप्रत्युपेक्षितव्यमिति तृतीयं स्थानम् ३ ।
तथा इदं च मे दुःखं न चिरकालोपस्थायि भविष्यति, इदं चानुभूयमानं मम श्रामण्यमनुपालयतो दुःखं शारीरमानसं कर्मफलं श्रीदशवैकालिकम् ।
१९९