________________
इत्येवमालपेत्, पक्काद्यर्थयोजना स्वधिया कार्येति ॥३१२॥
वाग्विधिप्रतिषेधाधिकारेऽनुवर्तमाने इदमपरमाहतहेव संखडि नच्चा, किच्चं कज्जंति नो वए । तेणगं वावि वज्झित्ति, सुतित्थित्ति अ आवगा ॥३१३॥
तहेवत्ति, तथैव संखडि ज्ञात्वा संखण्डयन्ते प्राणिनामायूंषि यस्यां प्रकरणक्रियायां सा संखडी तां ज्ञात्वा, करणीयेति पित्रादिनिमित्तं कृत्यैवैषेति नो वदेत्, मिथ्यात्वोपबृंहणदोषात्, तथा स्तेनकं वापि वध्य इति नो वदेत्, तदनुमतत्वेन निश्चयादिदोषप्रसङ्गात्, सुतीर्था इति च, चशब्दाद् दुस्तीर्था इति वा आपगा-नद्यः, केनचित्पृष्टः सन्नो वदेत्, अधिकरणविघातादिदोषप्रसङ्गादितिः ॥३१३||
प्रयोजने पुनरेवं वदेदित्याहसंखडि संखडि बूआ, पणिअटुं त्ति तेणगं । बहुसमाणि तित्थाणि, आवगाणं विआगरे ॥३१४॥
संखडिंति, संखडिं संखडि ब्रूयात्, साधुकथनादौ संकीर्णा संखडिरित्येवमादि, पणितार्थ इति स्तेनकं वदेत्, शैक्षकादिककर्मविपाकदर्शनादौ, पणितेनार्थोऽस्येति पणितार्थः, पणद्यूतप्रयोजन इत्यर्थः । तथा बहुसमानि तीर्थानि आपगानां-नदीनां व्यागृणीयात्साध्वादिविषय इति ॥३१४॥
वाग्विधिप्रतिषेधाधिकार एव इदमाहतहा नईओ पुण्णाओ, कायतिज्जति नो वए । नावाहिं तारिमाउत्ति, पाणिपिज्जत्ति नो वए ॥३१५॥
तहा नईउत्ति, तथा नद्यः पूर्णा-भृता इति नो वदेत्, प्रवृत्तश्रवणनिवर्तनादिदोषात्, तथा काय-तरणीयाः-शरीरतरणयोग्या इत्येवं नो वदेत्, साधुवचनतोऽविघ्नमिति, प्रवर्तनादिदोषप्रसङ्गात्, तथा नौभि:श्रीदशवैकालिकम् ।
१२९