________________
वा पेसाणि वा पेसलाणि उद्राणि पेसाणि पेसलाणि - उद्रा: सिन्धुविषये मत्स्यास्तचर्मसूक्ष्मपक्ष्मनिष्पन्नानि, तत्रैव सूक्ष्मचर्माणः पशवस्तच्चर्मनिष्पन्नानि पेसाणि पेसलाणि वा कृष्णमृगाजिनकानि वा नीलमृगाजिनकानि वा गौरमृगाजिनकानि वा कनकानि कनकरसच्छुरितानि वा कनककान्तीनि कनकस्येव कान्तिर्येषां तानि वा कनकपट्टानि कृतकनकरसपट्टानि वा कनकखचितानि कनकरसस्तबकाञ्चितानि वा कनकस्पृष्टानि वा व्याघ्राणि व्याघ्रचर्मनिष्पन्नानि वा विव्याघ्राणि व्याघ्रचर्मविचित्रितानि वा वृकाण वृकचर्मनिष्पन्नानि वा आभरणानि आभरणप्रधानानि वा आभरणविचित्राणि वा गिरिविडकादिभूषितानि - गिरिवनादिचित्रभूषितानि इत्यर्थः अन्यतराणि वा तथाप्रकाराणि आजिनप्रावरणानि वस्त्राणि लाभे सति नो प्रतिगृह्णीयात् ।।१४५ ||
साम्प्रतं वस्त्रग्रहणाभिग्रहविशेषमधिकृत्याह -
-
इच्चेइयाइं आयतणाइं उबाइकम्म अह भिक्खू जाणिज्जा चउहिं पडिमाहिं वत्थं एसित्तए, तत्थ खलु इमा पढमा पडिमा से भि० २ उद्देसिय बत्थं जाइज्जा, तं- जंगियं बा जाव तूलकडं वा, तह. वत्थं सयं वा णं जाइज्जा परो. फासूयं परि. पढमा । अह दुच्चा पडिमा से भि० पेहाए बत्थं जाइज्जा - गाहावई वा कम्मकरी वा, से पुब्बामेव आलोइज्जा - आउसोत्ति वा २ वाहिसि मे इत्तो अन्नयरं वत्थं? तहप्प. वत्थं सयं वा परो. फासुयं एस. लाभे. पडि. दुच्चा पडिमा २ । अहावरा तच्चा पडिमा से भिक्खू वा २ से जं पुण. तं अंतरिज्जं वा तहप्पगारं वत्थं सयं. पडि., तच्चा पडिमा ३ । अहावरा चउत्था पडिमा से उज्झियधम्मियं वत्थं जाइज्जा जं चऽन्ने बहवे समण. वणीमगा नावकखंति तहप्प. उज्झिय. वत्थं सयं. परो. फासूयं जाब प., चउत्था पडिमा ४ ।
-
इत्येतानि आयतनानि कर्मबन्धकारणानि उपातिक्रम्य परिहृत्य अथ भिक्षुर्जानीयात् चतसृभिः प्रतिमामिः अभिग्रहविशेषैः तद्यथा - उद्दिष्टा १, प्रेक्षिता २ परिभुक्तप्राया ३ उज्झितधार्मिकाभिः ४ वस्त्रमेषितुम् । तत्र खलु इमा प्रथमा प्रतिमास भिक्षुर्वा २ उद्दिष्टं वस्त्रं याचेत तद्यथा - - जंगियं वा यावत् - तूलकृतं वा, तथाप्रकारं वस्त्रं स्वयं वा याचेत परो वा तस्मै दद्यात् प्रासुकमेषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् इति प्रथमा १ । अथाऽपरा द्वितीया प्रतिमा - स भिक्षुर्वा प्रेक्ष्य वस्त्रं याचेत तद्यथा - गृहपतिं वा कर्मकरीं वा स साधुः पूर्वमेव आलोचयेद् वदेत् - आयुष्मन् भगिनि ! इति वा दास्यसि मे इतोऽन्यतरद् वस्त्रं ? तथाप्रकारं वस्त्रं स्वयं वा याचेत परो वा तस्मै दद्यात् प्रासुकमेषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् इति द्वितीया प्रतिमा २ । अथाऽपरा तृतीया प्रतिमा - स भिक्षुर्वा २ तत्र यत् पुर्नजानीयात् तद्यथा - तद् अन्तरीयम् अन्तरपरिभोगेन वा तथाप्रकारं वस्त्रं स्वयं याचेत परो वा तस्मै दद्यात् प्रासुकम् एषणीयमिति मन्यमानो लाभे सति प्रतिगृह्णीयात् इति तृतीया प्रतिमा ३ । अथाऽपरा चतुर्थी प्रतिमास भिक्षुर्वा २ उज्झितधार्मिकं वस्त्रं याचेत यच्चान्ये बहवः श्रमणा वनीपका नावकाङ्क्षन्ति तथाप्रकारं उज्झितधार्मिकं वस्त्रं स्वयं याचेत परो वा तस्मै दद्यात्, प्रासुकं यावत् प्रतिगृह्णीयाद् इति चतुर्थी प्रतिमा ४ ।
आचाराङ्गसूत्रम्
८०