________________
एतां तावत्त्वं नावमुत्कर्षय वा व्युत्कर्षय वा क्षेपय वा रज्ज्वा वा गृहीत्वा आकर्षय, नो स भिक्षुस्तां परिज्ञां प्रार्थनां परिजानीयात्, तूष्णीक उपेक्षेत । अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! यदि न संशक्नोसि त्वं नावमुत्कर्षयितुं वा रज्ज्वा वा गृहीत्वाऽऽकर्षयितुं वा तदा आहर एतां नावो रज्जुं स्वयमेव, वयं च नावमुत्कर्षयिष्यामो वा यावद् रज्ज्वा वा गृहीत्वाऽऽकर्षयिष्यामः, नो स तां परिज्ञां परिजानीयात्, तूष्णीक उपेक्षेत । अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! एनां तावत्त्वं नावं अरित्रेण वा पीठकेन वा वंशेन वा वलकेन येन नौर्वाल्यते दक्षिणं वामं वा तेन वा अवलुकेन नौक्षेपणोपकरणविशेषस्तेन वा वाहय, नो स तां परिज्ञां परिजानीयात् तूष्णीक उपेक्षेत । अथ परो नौगतो नौगतं वदेत् - आयुष्मन! श्रमण! एतत्तावत्त्वं नाव उदकं हस्तेन वा पादेन वा मात्रेण वा पतद्ग्रहेण वा नावुत्सिचनेन सेकपात्रेण वोत्सिन, नो स तां परिज्ञां परिजानीयात्, तुष्णीक उपेक्षेत। अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! एतत्त्वं नाव उत्तिङ्गं रन्ध्रम् हस्तेन वा पादेन वा बाहुना वा ऊरुणा वा उदरेण वा शीर्षण वा कायेन वा उत्सिचनेन वा चेलेन वा मृत्तिकया वा कुशपत्रकेण कुशोदर्यो वा मुञ्जो वा मृत्तिकया सह कुट्यते स कुशपत्रकस्तेन वा कुविन्दकेन छल्लिा वल्को वा मृत्तिकया स कुविदकस्तेन वा पिधेहि, नो स तां परिज्ञां परिजानीयात्, तूष्णीक उपेक्षेत। स भिक्षुर्वा २ नावि उतिङ्गेन उदकम् आश्रवत् प्रेक्ष्य, उपर्युपरि नावं प्लाव्यमानां पूर्यमाणां प्रेक्ष्य, नो परम् उपसंक्रम्य एवं ब्रूयात् - आयुष्मन्! गृहपते! एतत्ते नावि उदकम् उत्तिङ्गेनाऽऽश्रवति नौर्वा प्लाव्यते, पूर्यते एतत्प्रकारं मनो वा वाचं वा नो पुरतः कृत्वा विहरेत, अल्पोत्सुक: अविमनस्क: अबहिर्लेश्यः शरीरोपकरणादौ मूर्छमकुर्वन् एकान्तगतेन आत्मना आत्मानं व्युत्सृजेद् व्यवस्येद्वा समाधिना, ततः संयत एव नौसंतार्ये चोदके यथार्यं विशिष्टाऽध्यवसायः सन् यद्वा परमेष्ठिनमस्कारपरायणः सन रीयेत्, एवं खुल सदा यतस्व इति ब्रवीमि ||११९।। ।। ईर्याऽध्ययने प्रथम उद्देशः ।।
॥ द्वितीय उद्देशकः ।। अधुना द्वितीयः समारभ्यते, इहानन्तरोद्देशके नावि व्यवस्थितस्य विधिरभिहितस्तदिहापि स एवाभिधीयते, इत्यस्योद्देशकस्यादिसूत्रम् -
सेणं परोणावा. आउसंतो! समणा. एयं ता तुमं छत्तगंवा जाव चम्मछेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणिधारेहि, एयंता तुमं दारगंवा पज्जेहि, नोसेतं. सूत्र-१२०।। ।
अथ परो नौगतो नौगतं वदेत् - आयुष्मन्! श्रमण! एतत्तावत्त्वं छत्रकं वा चर्मच्छेदनकं वा गृहाण, एतानि त्वं विरूपरूपाणि विविधानि शस्त्रजातानि धारय, एनं तावत्त्वं दारकं वा उदकं पायय, नो स तां परिज्ञां प्रार्थनां परिजानीयात्, तूष्णीक उपेक्षेत ।।१२०।।
तदकरणे च परः प्रद्विष्ट: सन् यदि नावः प्रक्षिपेत्तत्र यत्कर्तव्यं तदाह -
सेणं परो नावागए नावागयं वएज्जा-आउसंतो! एसणं समणे नावाए भंउभारिए भवइ, से णं बाहाए गहाय नावाओ उदगंसि पक्खिविज्जा, एयप्पगारं निग्घोसं सुच्चा
आचारागसूत्रम्