________________
अगारिभिः चेतितानि भवन्ति, तद्यथा - आदेशनानि वा यावद् गृहाणि वा महता पृथिवीकायसमारम्भेण यावन्महता त्रसकायसमारम्भेण महद्भिर्विरूपरूपैः विविधैः पापकर्मकृत्यैः, तद्यथा - छादनतो लेपनतः संस्तारकद्वारपिधानतः संस्तारकार्थं द्वारढक्कनार्थं च इत्यादीनि प्रयोजनान्युद्दिश्य, शीतोदकं वा परिष्ठापितपूर्वं त्यक्तपूर्वं भवति अग्निकायो वा उज्ज्वालितपूर्वो भवति, ये भगवन्तस्तथाप्रकाराणि आदेशनानि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु गृहेषु यदि वर्तन्ते तदा द्विपक्षं ते कर्म सेवन्ते, तद्यथाप्रव्रज्याम् आधाकर्मिकवसत्यासेवनाद् गृहस्थत्वं च, रागं द्वेषं च, ईर्यापथं साम्परायिकं च, इत्यादिदोषाद् इयम् आयुष्मन्! महासावंद्यक्रिया वसतिश्च भवति ।। ८५ ।।
इदानीमल्पक्रियाभिधानामधिकृत्याह -
इह खलु पाईणं बा. जाव तं रोयमाणेहिं अप्पणो सयट्ठाए तत्थ २ अगारीहिं जाब उज्जालियपुब्बे भवइ, जे भयंतारो तहप्प. आएसणाणि वा. उवागच्छंति इयरायरेहिं पाहुडेहिं एगपक्खं ते कम्मं सेवंति, अयमाउसो ! अप्पसावज्जकिरिया यावि भवइ ९ । एवं खलु तस्स । सूत्र - ८६ ॥
॥ शय्यैषणायां द्वितीयोदेशकः ।।
इह खलु प्राच्यां वा ४ रोचयद्भिः आत्मना स्वार्थं तत्र २ अगारिभिर्यावद् उज्ज्वालितपूर्वो भवति, ये भगवन्त स्तथाप्रकाराणि आदेशनानि वा उपागच्छन्ति इतरेतरेषु प्राभृतेषु एकपक्षं स्वर्गं वाऽपवर्ग वा ते कर्म सेवन्ते, इयम् आयुष्मन् ! अल्पसावद्यक्रिया वसति भवति अल्पशब्दोऽ भाववाची वर्तते। एतत् खलु तस्य भिक्षोः साम्ग्र्यम् । अनन्तरसूत्रैर्नवभिर्नव वसतयः प्रतिपादिताः, आसु चाभिक्रान्ताल्पक्रिये योग्ये, शेषास्त्वयोग्या इति ॥ ८६ ॥
।। द्वितीयाध्ययनस्य द्वितीयोद्देशकः समाप्तः । ।। तृतीय उद्देशः ।।
अधुना तृतीयः समारभ्यते, इहानन्तरसूत्रे ऽल्पक्रिया शुद्धा वसतिरभिहिता, इहाप्यादिसूत्रेण तद्विपरीतां दर्शयितुमाह -
सेय नो सुलभ फासुए उंछे अहेसणिज्जे नो खलु सुद्वे इमेहिं पाहुडेहिं, तंजहाछायणओ लेवणओ संथारवुवारपिहणओ पिंडवाएसणाओ, से य भिक्खू चरियारए ठाणरए निसीहियारए सिज्जासंथारपिंडवाएसणारए, संति भिक्खुणो एवमक्खाहणो उज्जुया नियागपडिबन्ना अमायं कुब्बमाणा वियाहिया, संतेगड्या पाहुडिया उक्खित्तपुव्वा भवइ, एवं निक्खित्तपुव्वा भवइ, परिभाइयपुव्वा भवइ, परिभुत्तपुब्बा भवइ, परिट्ठबियपुव्वा भवइ, एवं वियागरेमाणे समियाए वियागरे ?, हंता भवइ । । सूत्र- ८७ ।।
स च प्रतिश्रयो न सुलभः प्रासुकः आधाकर्मादिदोषरहितः उञ्छः छादनाद्युत्तरदोषरहितो यथैषणीयः, न च खलु शुद्धः अमीभिः प्राभृतैः कर्मभिः, तद्यथाछादनतो लेपनतः संस्तारकद्वारपिधानतः पिण्डपातैषणातश्च। प्रतिश्रयो मूलोत्तरगुणशुद्धोऽपि सन् स्वाध्यायादिभूमिसमन्वितो विविक्तो दुराप
आचाराङ्गसूत्रम्
४९