________________
अशनं वा ४ उपसंस्क्रियमाणं प्रेक्ष्य पुरा अप्रयूढे सिद्धेऽप्योदनादिके चुल्लिकादितो रन्धनभाजनादिको वाऽनुद्धृते सति पुराऽन्येषां वाऽदत्ते सति स एवं संयमात्मविराधनेति ज्ञात्वा न गृहपतिकुलं पिण्डपातप्रतिज्ञया निष्क्रामेद् वा प्रविशेद्वा । स तद् ज्ञात्वा एकान्तं अपक्रामेद्, अनापातेऽसंलोके च तिष्ठेत् । अथ पुनरेवं जानीयात् क्षीरिण्यो गावो दुग्धा इति प्रेक्ष्य, अशनं वा ४ उपसंस्कृतं इति प्रेक्ष्य पुरा प्रयूढे उद्धृते सति पूर्वं वाऽन्येषाम् दत्ते सति स एवं निर्दोषं ज्ञात्वा ततः संयत एव गृहपतिकुलं निष्क्रामेद् वा २ ||२३||
पिण्डाधिकार एवेदमाह -
भिक्खागा नामेगे एवमाहंसु समाणा वा बसमाणा वा गामाणुगामं दूइज्जमाणे खुड्डाए खलु अयं गामे संनिरुद्धाए नो महालए से हंता भयंतारो बाहिरगाणि गामाणि भिक्खायरियाए वयह, संति तत्थेगइयस्स भिक्खुस्स पुरेसंथुया वा पच्छासंथुया बा परिवसंति, तंजहा-गाहाबई वा गाहाबरणीओ वा गाहाबइपुत्ता वा गाहावइधूयाओ वा गाहावसुहाओ वा धाइओ वा दासा वा दासीओ वा कम्मकरा वा कम्मकरीओ वा, तहप्पगाराइं कुलाइं पुरेसंथुयाणि वा पच्छासंथुयाणि वा पुव्वामेव भिक्खायरियाए अणुपविसिस्सामि, अवि य इत्थ लभिस्सामि पिंडं वा लोयं वा खीरं वा वहिं वा नवणीयं बा घ बागुलं वा तिल्लं वा महुं वा मज्जं वा मंसं वा सक्कुलिं वा फाणियं वा पूयं वा सिहरिणिं बा, तं पुव्वामेव भुच्चा पिच्चा पडिग्गहं च संलिहिय संमज्जिय तओ पच्छा भिक्खूहिं सद्वि गाहा. पविसिस्सामि वा निक्खमिस्सामि वा, माइट्ठाणं संफासे, तं नो एवं करिज्जा। से तत्थ भिक्खूहं सद्धिं कालेण अणुपविसिता तत्थियरेयरेहिं कुलेहिं सामुवाणियं एसियं बेसियं पिंडवायं पडिगाहित्ता आहारं आहारिज्जा, एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं. ।। सूत्र - २४ ।।
।। पिण्डैषणायां चतुर्थ उद्देशकः समाप्तः ।।
भिक्षुका नामैके एवमाहुः - समानाः जङ्घाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्ते वा वसमानाः मासकल्पविहारिणो वा ग्रामानुग्रामं दूयमानान् गच्छतः प्राघूर्णकान् समायातान् एवमूचुः क्षुल्लकः खलु अयं ग्रामस्तथा सूतकादिना सन्निरुद्धः, मो महान्, अथ हन्त ! भवन्तो बहिर्ग्रामेषु भिक्षाचर्यार्थं व्रजत। सन्ति तत्र एकस्य भिक्षोः पुरः संस्तुता भ्रातृव्यादयो वा पश्चात्संस्तुता श्वसुरकुलसंबद्धा वा परिवसन्ति, तद्यथा- -गृहपतिर्वा गृहपत्न्यो वा गृहपतिपुत्रा वा गृहपतिदुहितारो वा गृहपतिस्नुषा वा धात्र्यो वा दासा वा दास्यो वा कर्मकरा वा कर्मकर्यो वा तथा प्रकाराणि कुलानि पुरः संस्तुतानि वा पश्चात्संस्तुतानि वा । स चैवमभिसंदधीत-पूर्वमेव भिक्षाकालादहमेतेषु कुलेषु भिक्षार्थं प्रवेक्ष्यामि । अपि च अत्र कुलेषु लप्स्ये पिण्डं वा लोयं इन्द्रियानुकूलं रसाद्युपेतं वा क्षीरं वा दधि वा नवनीतं वा घृतं वा गुडं वा तैलं वा मधु वा मद्यं वा मांसं वा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृध्नुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानम् आचाराङ्गसूत्रम्
१४