________________
अन्येभ्यो वा दीयमानं परिगृहीतपूर्वं भवेत्, तस्मात् स संयतो निर्ग्रन्थस्तथाप्रकारां आकीर्णाम् अवमांहीनां संखडिं संखडिप्रतिज्ञया नाभिसन्धारयेद् गमनाय ||१७।।
साम्प्रतं सामान्येन पिण्डशङ्कामधिकृत्याह -
से भिक्खू वा २ जाव समाणे से जं पुण जाणिज्जा असणं वा ४ एसणिज्जे सिया अणेसणिज्जे सिया वितिगिछसमावन्नेण अप्पाणेण असमाहडाए लेसाए तहप्पगारं असणं वा ४ लाभे संतेनोपडिगाहिज्जा ।। सूत्र-१८ ।। ____ सभिक्षुर्वा २ यावत् सन् स यत्पुनर्जानीयात् अशनं वा ४ एषणीयं स्याद् अनेषणीयं वा स्याद्, इति विचिकित्सासमापन्नेन जुगुप्सा वाऽनेषणीयशा वा तया समापन्नस्तेना ऽऽत्मना असमाहृतया अशुद्धया लेश्यया तथाप्रकारं अशनं वा ४ लाभे सति न प्रतिगृह्णीयात् ।।१८।।
साम्प्रतं गच्छनिर्गतानधिकृत्य सूत्रमाह -
से भिक्खू वा २ गाहावाकुलं पविसिउकामे सव्वं भंडगमायाए गाहावइकुलं पिंउवायपडियाए पविसिज्ज वा निक्खमिज्ज वा पासे भिक्खू वा २ बहिया विहारभूमिंवा वियारभूमि वा निक्खममाणे वा पविसमाणे वा सबं भंगमायाए बहिया विहारभूमि वा वियारभूमि वा निक्खमिज्ज वा पविसिज्ज वाश से भिक्खू वा गामाणुगामं हज्जमाणे सब भंडगमायाए गामाणुगामं दूइज्जिज्जा३ ।। सूत्र-१९ ।। ____ सभिक्षुर्वा २ गृहपतिकुलं प्रवेष्टुकामः सर्वं भण्डकमादाय - धर्मोपकरणं गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद वा निष्क्रामेद्वा। धर्मोपकरणं, तद्यथा-कस्यचिदच्छिद्रपाणेर्जिनकल्पिकस्य द्विविधं-रजोहरणं मुखवस्त्रिका च, कस्यचित् त्वक्त्राणार्थं क्षौमपटपरिग्रहात्त्रिविधम्, अपरस्योदकबिन्दुपरितापादिरक्षणार्थं औणिकपटपरिग्रहाच्चतुर्विधम्, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहात्पन्नधेति, छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य उक्तक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति। पात्रनिर्योगश्च-‘पत्तं १ पत्ताबंधो २ पायवट्ठवणं ३ च पायकेसरिया ४। पडलाइं ५ रयताणं ६ च गोच्छओ७ पायनिज्जोगो' ।।१।। स भिक्षुर्वा २ बहिर्विहारभूमि-जिनालयं स्वाध्यायभूमि वा विचारभूमि - विष्ठोत्सर्गभूमिं वा निष्क्रामन् वा प्रविशन् वा सर्वं भण्डकमादाय बहिर्विहारभूमिं वा विचारभूमि वा निष्क्रामेद्वा प्रविशेद्वा । बहिर्विहारभूमि वा प्रविशन् वा निष्क्रामन् वा सर्वं भण्डकमादाय बहिर्विहारभूमिं वा प्रविशेन्निष्क्रामेद्वेत्यर्थः । सूत्रे 'निष्क्रामन् वा प्रविशन् वा' इत्यादि दृश्यते तत् सूत्रगतेवैचित्र्याद, एवमेवाग्रेऽपि समवसेयम्। स भिक्षुर्वा २ ग्रामानुग्रामं द्रवन् सर्वं भण्डकमादाय ग्रामानुग्रामं द्रवेद-गच्छेत् ।।१९।।
साम्प्रतं गमनाभावे निमित्तमाह - ....
आचारागसूत्रम्
११.