________________
साम्प्रतं तृतीय आरभ्यते, इहानन्तरोद्देशके दोषसम्भवात् संखडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह -
से एगइओ अन्नयरं संखडि आसित्ता पिबित्ता छडिज्जा वा वमिज्जा वा, भुत्ते वा से नो सम्मं परिणमिज्जा, अन्नयरे वा से दुक्खे रोगायंके समुप्पज्जिज्जा, केवली बूया आयाणमेयं ।। सूत्र - १४ ।।
स एकदा अन्यतरां संखडिं आस्वाद्य पीत्वा छर्दयेद्वा वमेद्वा, भुक्तं वा तस्य न सम्यक् परिणमेत्, अन्यतरद्वा तस्य दुःखं रोगातङ्कः समुत्पद्येत, केवली ब्रूयात् आदानमेतत्- कर्मोपादानमेतदिति ।।१४।।
इह खलु भिक्खू गाहावईहिं वा गाहावइणीहिं वा परिवायएहिं वा परिवाईयाहिं वा एगज्जं सद्धिं सुंडं पाउं भो बइमिस्सं हुरत्था वा उवस्सयं पडिलेहेमाणो नो लभिज्जा । तमेव उवस्सयं संमिस्सीभावमावज्जिज्जा, अन्नमणे वा से मत्ते विप्परियासियभूए, इत्थिविग्गहे वा किलीने वा तं भिक्खु उवसंकमित्तु बूया आउसंतो समणा ! अहे आरामंसि बा अहे उबस्सयंसि बा राओ वा वियाले बा गामधम्मनियंतियं कट्टु रहस्सियं मेहुणधम्मपरियारणाए आउट्टामो, तं चेवेगइओ सातिज्जिज्जा - अकरणिज्जं चेयं संखाए एए आयाणा (आयतणाणि) संति संविज्जमाणा पच्चवाया भवंति, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिं वा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए ।। सूत्र - १५ ।।
यथैतदादानं भवति तथा दर्शयति- इह संखडिस्थानेऽस्मिन् वा भवे खलु भिक्षुर्गृहपतिभिर्वा गृहपत्नीभिर्वा परिव्राजकैर्वा परिव्राजिकाभिर्वा सार्धं एकद्यम् एकवाक्यतया सीधुं पीत्वा भो ! तैः सह व्यतिमिश्रं बहिर्निर्गत्य प्रतिश्रयं वसतिं याचेत, यदा च प्रत्युपेक्षमाणो निरीक्षमाणो न लभेत । ततः तमेव प्रतिश्रयं यत्र संखडिस्तत्रान्यत्र वा तैः सह मिश्रीभावमापद्येत, अन्यमना वा स मत्तो विपर्यासीभूतः - अहं संयत इत्येवंभूतं भावं विस्मृतः सन् उन्मत्तः सन् स भिक्षुरित्यर्थः आसक्तः स्यात् स्त्रीविग्रहे स्त्रीशरीरे वा क्लीबे वा, सा च स्त्री क्लीबो वा तं भिक्षुमुपसंक्रम्य आसन्नीभूय ब्रूयात् - आयुष्मन् श्रमण ! अथ आरामे वाऽथोपाश्रये वा रात्रौ वा विकाले सायंकाले वा ग्रामधर्मनियन्त्रितं ग्रामधर्मैः - विषयोपभोगगतैर्व्यापारैर्नियन्त्रितं कृत्वा रहसि मैथुनधर्मपरिचारणयाऽऽवर्तामहे, तां मैथुनप्रार्थनां च एकाकी स्वादयेद् - अभ्युपगच्छेत्, अकरणीयमेतच्चैवं सङ्ख्याय कर्मोपादानकारणानि सन्ति संचीयमानानि - अभ्यस्यमानानि । एवमादिकाः प्रत्यपाया भवन्ति, तस्मात् - स संयतो निर्ग्रन्थस्तथाप्रकारां पुरः संखडिं वा पश्चात्संखडिं वा संखडिं संखडिप्रतिज्ञया नाभिसन्धारयेद् गमनाय ||१५|
ज्ञात्वा एतानि आयतनानि
आचाराङ्गसूत्रम्
-
९
-