________________
निर्गच्छति, निर्गत्य यत्रैव ज्ञातषण्ड उद्यानस्तत्रैवोपागच्छति उपागत्य ईषद् रत्निप्रमाणं - हस्तप्रमाणम्, अस्पृष्टे भूमिभागे शनैः २ चन्द्रप्रभां शिबिकां स्थापयति, स्थापयित्वा शनैः २ चन्द्रप्रभायाः शिबिकातः सहस्त्रवाहिनीतः प्रत्यवतरति प्रत्यवतीर्य शनैः २ पूर्वाभिमुखे सिंहासने निषीदति, निषद्य चाभरणालङ्कारमवमुञ्चति, ततो वैश्रमणो देवो जानुपादपतितो भगवतो महावीरस्य हंसलक्षणे पटे आभरणालङ्कारं प्रतीच्छति, ततः श्रमणो भगवान् महावीरो दक्षिणेन दक्षिणं वामेन वामं लोचं - केशलुञ्चनं, करोति, ततः शक्रो देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य जानुपादपतितो वज्रमये स्थाले केशान् प्रतीच्छति, प्रतीष्य ‘अनुजानासि भगवन्!' इति कृत्वा तान् केशान् क्षीरोदकसागरं संहरति - नयति, ततः श्रमणो भगवान् महावीरो यावल्लोचं कृत्वा सिद्धेभ्यो नमस्कारं करोति, कृत्वा 'सर्वं मे मया वाऽकरणीयं पापकर्म' इति कृत्वा सामायिकं चारित्रं प्रतिपद्यते, प्रतिपद्य देवपर्षदं च मनुजपर्षदं चाऽऽलेख्यचित्रभूतामिव स्थापयति -
दिव्यमनुष्यघोषो तूर्यनिनादश्च शक्रवचनेन, क्षिप्रमेव निलीन - स्थगित, यदा भगवान् प्रतिपद्यते चारित्रम् ।।१२९ ।। प्रतिपद्य चारित्रमहर्निशं सर्वप्राणिभूतहितं विहरतीति शेषः, संहृष्टरोमपुलका यद्वा संवृतरोमपुलकाः सावधाना इत्यर्थः सर्वे देवा निशाम्यन्ति ।। १३० ।।
ओणं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरितं परिवन्नस्स मणपज्जवनाणे नामं नाणे समुप्पन्ने अढाइज्जेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिंदियाणं पज्जत्ताणं वियत्तमणसाणं मणोगयाइं भावाइं जाणेइ । तओ णं समणे भगवं महावीरे पव्वइए समाणे मित्तनाइं सयणसंबंधिवग्गं पडिविसज्जेइ, २ इमं एयारूवं अभिग्गहं अभिगिण्हइबारस बासाइं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा समुप्पज्जंति, तंजहा-विब्बा बा माणुस्सा बा तेरिच्छिया बा, ते सव्वे उवसग्गे समुप्पन्ने समाणे सम्मं सहिस्सामि खमिस्सामि तितिक्खिस्सामि अहिआसइस्सामि । तओ णं स. भ. महावीरे इमं एयारूवं अभिग्गहं अभिगिन्हित्ता वोसिट्ठचत्तवेहे दिवसे मुहत्तसेसे कुम्मारगामं समणुपत्ते । तओ णं स० भ० म. बोसिट्ठचत्तवेहे अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं एवं संजमेणं पग्गहेणं संवरेणं तवेणं बंभचेरवासेणं खंतीए मुत्तीए समिईए गुत्तीए तुट्ठीए ठाणेणं कंमेणं सचरियफलनिब्बाणमुत्तिमग्गेणं अप्पाणं भाबेमाणे बिहर ।
ततः श्रमणस्य भगवतो महावीरस्य सामायिकं क्षायोपशमिकं चारित्रं प्रतिपन्नस्य मनः पर्यवज्ञानं नाम ज्ञानं समुत्पन्नं, तेन ज्ञानेन भगवान् अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोः संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तानां व्यक्तमनसां मनोगतान् भावान् जानाति । ततः श्रमणो भगवान् महावीरः प्रव्रजितः सन् मित्रज्ञातिं स्वजनसम्बन्धिवर्गं प्रतिविसृजति, प्रतिविसृज्य इममेतद्रूपमभिग्रहमभिगृह्णाति - एतादृशं, द्वादश वर्षान् व्युत्सृष्टकायस्त्यक्तदेहो ये केचिदुपसर्गाः समुत्पद्यन्ते, तद्यथा - दिव्या वा मानुष्या... तैरश्चिका वा तान् सर्वानुपसर्गान् समुत्पन्नान् सतः सम्यक् सहिष्ये क्षमिष्येऽध्यासिष्ये, ततः श्रमणो भगवान् महावीर इममेतद्रूपमभिग्रहमभिगृह्य व्युत्सृष्टत्यक्तदेहः - त्यक्तदेहपरिकर्मो दिवसे मुहूर्तशेषे आचाराङ्गसूत्रम्
१२२