________________
-
` स्यात् परः अक्षिमलं वा कर्णमलं वा दन्तमलं वा नखमलं वा निस्सारयेद्वा विशोधयेद्वा नो तत् २ । तस्य स्यात् परः दीर्घान् वालान् - केशान् दीर्घाणि वा रोमाणि दीर्घा भ्रुवो वा दीर्घाणि कक्षारोमाणि दीर्घाणि वस्तिरोमाणि - अपानदेशे यानि रोमाणि तानि कल्पयेद्वा- भूषयेद्वा चिकित्सायां कर्तयेदित्यपि संभाव्यते संस्थापयेद्वा नो तत् २ । तस्य स्यात् परः शीर्षतो लिक्षां वा यूकां वा निस्सारयेद्वा विशोधयेद्वा नो तत् २ । तस्य साधोः स्यात् परः तं साधुं अड्के - उत्सङ्गे वा पर्यङ्के पर्यस्तिकायां वा त्वग्वर्तयित्वा पादौ आमृज्याद्वा प्रमृज्याद्वा एवम् अधस्तनो गमः पादौ आश्रित्य भाणितव्यः । तस्य स्यात् परः अङ्केवा पर्यङ्के वा त्वग्वर्तयित्वा हारं वा अर्धहारं वा उरस्थं- आभूषणविशेषो यद् उरसि धार्यते तं वा ग्रैवेयकं वा मुकुटं वा प्रालम्बं - आभरणविशेष एव ग्रीवायां प्रलम्बते तं वा सुवर्णसूत्रं वा आविध्येद्वा परिधापयेदित्यर्थः पिनह्येद्वा नो तत् २ । तस्य स्यात् परस्तं साधुमारामे वोद्याने वा निष्क्राम्य वा प्रवेश्य वा पादौ आमृज्याद्वा प्रमृज्याद्वा नो तत् स्वादयेत् । एवं नेतव्या अन्योन्यक्रियाऽपि - एवममुमेवार्थमुत्तरसप्तैकके अन्योन्यक्रियाभिधेऽपि तुल्यत्वात् संक्षेपरुचिः सूत्रकारोऽतिदिशति, तथाहि पूर्वोक्ता रजः प्रमार्जनादिकास्ताः क्रियाः परस्परतः साधुना कृतप्रतिक्रियया न विधेया इति ।।१७२ ।।
किञ्च -
सेसिया परो सुद्वेणं असुद्वेणं वा वइबलेण वा तेइच्छं आउट्टे से. असुद्वेणं वइबलेण तेइच्छं आउट्टे से सिया परो गिलाणस्स सचित्ताणि वा कंदाणि वा मूलाणिवा तयाणि वा हरियाणि वा खणित्तु वा कड्डित्तु वा कड्डावित्तु वा तेइच्छं आउट्टाविज्ज नो तं. सा. २ | कजुवेयणा पाणभूयजीवसत्ता वेयणं बेइंति, एवं खलु. समिए सया जए सेयमिण मन्निज्जासि त्ति बेमि ।। सू० १७३ ।।
।। छट्टओ सत्तिक्कओ ।
तस्य स्यात् परः शुद्धेनाऽशुद्धेन वा वाग्बलेन मन्त्रादिसामर्थ्येन वा चिकित्सामाद्रियेत, तस्य स्यात् परः अशुद्धेन वाग्बलेन चिकित्सामाद्रियेत, तस्य स्यात् परो ग्लानस्य सचित्तानि वा कन्दानि वा मूलानि वा त्वचो वा हरितानि वा खनित्वा वा कृष्ट्वा वा खानयित्वा वा कर्षयत्वाव चिकित्सामाद्रियेत न तत् स्वादयेद्वा न तन्नियमयेद्वा । कटुवेदनाः परेषामुत्पाद्य प्राणिभूतजीवसत्त्वा अनन्तगुणां वेदनां वेदयन्ति । इति परिभावयन्नप्रतिकर्मशरीरेण भवितव्यम्, यद्यच्चाऽऽयाति तत्तत् सम्यक् सोढव्यम् । एतत् खलु तस्य भिक्षोः सामग्र्यमिति समितः सदा यतस्व, श्रेय इदमिति मन्यस्व, इति ब्रवीमि ।।१७३।।
।। षष्ठं सप्तैककाध्ययनं समाप्तम् ।।
।। अथ सप्तमोऽन्योन्यक्रियासप्तैककः ।।
अनन्तराध्ययने सामान्येन परक्रिया निषिद्धा, परन्तु गच्छान्तर्गतैः परक्रियायामन्योन्यक्रियायां च यतना कर्त्तव्या । गच्छनिर्गतानां तु परक्रियावदन्योन्यक्रियाऽपि निषिध्यते, इत्यस्यान्योन्यक्रियाऽध्ययनस्य सूत्रमिदम् -
'आचाराङ्गसूत्रम्
११०