________________
श्री हरिबलधीवर-चरित्रम् अहो! सापराधमपि मां बृहच्छक्तियुतोऽसौ दयया जहौ। अतोऽसौ महान् सामर्थ्यवान् मदीयराज्यमपि नोररीचकार। सर्वथाऽसमर्थोऽहं चैतस्य लक्ष्म्यौ ग्रहीतुमुद्यतोऽभवम्। अतोऽधमाधमोऽहं परमोपकारिणोऽस्मात्कथमहं मुक्तो भवामि। इत्येवं हरिबलस्य प्रशंसां कुर्वन् स्वात्मानं विगर्हयन् भवोद्वेगमावहन् चिराद् बहुकष्टेन निजभवनमगमत्, धर्मराजगृहगमननैष्फल्यान्वितो जातः। यमगृहगमनाय समुपस्थितो लोकश्च कौतुकान्वितं हरिबलचरित्रं वर्णयन् निजगृहं जगाम। तदानीं तत्राकस्मिकनिमित्तकारणेन स भूपतिवैराग्यचेता बभूव। अथ स राजा गते कियति काले वैराग्यरागरञ्जितो हरिबलाय निजां दुहितरं पत्नीत्वेन समर्प्य स्वकीयराज्यं च तस्मा एव दत्त्वा पूर्वसञ्चितपापविनाशाय शुभे मुहूर्ते सद्गुरुपार्श्वे दीक्षां गृहीत्वान्तेऽनुत्तमां गतिमाप।
अथ तत्र काञ्चनपुराधीश्वरोऽपि निजगृहाद्विनष्टां स्वीयात्मजां विज्ञाय दुःखीभवन् प्रतिदिशं समाचारघोषणां कृतवान्। ततः शनैः शनैः पथिकजनमुखाद्धरिबलीयं वृत्तमश्रौषीत्। अथातिहर्षान्वितो नृपतिर्हरिबलं निजजामातरं विज्ञाय कार्यविज्ञातृन् मुख्यामात्यादिमहतो नृन् प्रेष्य बहुमानं निजतनयमिव हरिबलमाचीकरत्। हरिबलोऽपि पृथिव्यां पुरुहूत इव निखिलर्द्धिसमृद्धियुतः ससैन्यः सस्त्रीकोऽखिललोकेभ्यः कौतुकहर्षादि ददानः काञ्चनपुरं समागात्। तदानीं राजा राज्ञी च दुहितरं स्वामित्वमभिदधतुः। अयि प्रियवत्से! त्वया स्वेच्छया वरो वृतस्तच्चाघटितं कर्म, किं च भाग्यं ते महत्तरं, यत्त्वं लोकपूजितं भर्तारमलभथाः। इत्यादि जननी निजात्मजां प्रशशंस। भूपतिश्च हरिबलाय राज्यं समर्प्य द्वावपि भगवद्भजनादि कृत्वान्ते सद्गतिं लेभाते। __ अथ वैरिकटको वैरिबलो दर्पसर्पनिवारणविनतासुतो भाग्यो1. इन्द्रः 2. गरुड़।
353