________________
___श्री हरिबलधीवर-चरित्रम् प्रणिपत्योपस्थितवान्। तत इन्द्रोपमं हरिबलं स्वर्गसमागतं विलोक्य चमत्कृतो राजा राजभृत्याश्च बहुविस्मयं लेभिरे। राजा च हृदि व्यचिन्तयत्-अहो! धिग् पापान्वितमन्त्रिवचांसि। यद् यदर्थ मयाऽसौ हरिबलः साक्षाद्वह्रौ भस्मीकृतः, स चायमागतः कुतः? राजा हरिबलं परीपृच्छ्यते-यत्त्वं यमगृहात्कथमिहायातः? त्वया सत्रा च कोऽयं पुमान्? स आह-राजन्! यदाहं चितामधिष्ठाय भस्मीभूतस्तदैव यमद्वारमगच्छम्, गते च मयि तत्र यमभटा मदीयवृत्तान्तं यममाहुः। निजकिङ्करास्यान्मदीयवृत्तं निशम्य जातदयो मयि सन्तुष्टीभूय मां सजीवितं व्यधात्। अथ यमप्रसादान्मदीयदेहशोभादि समैधिष्ट। 'एकतः कष्टं द्वितीयतः सत्यम्, इति द्वये सम्पन्ने सति किं दुर्लभं स्यान्न किमपीति। कष्टात्सत्याच्च तुष्टीभूतो देवः सत्पुरुषाय किं किं न ददाति?' अथ धर्मराजो मया वक्तुमशक्यानि तथा मनसाप्यगोचराणि बहुविधर्द्धिसमृद्धिवस्तूनि समदर्शयत्। अहं च किं पश्यामि किन्न पश्यामीति चिन्तायुतोऽभवम्, यावद्वितीयं पश्यामि तावत्प्राथमिकं विस्मरामि, यावत्तृतीयं पश्यामि तावद् द्वितीयं विस्मराम्येतादृशोऽभवम्। राजन्! तत्र शक्रनगरीविजेत्री संयमनी नाम यमनगरी महीयसी वर्तते, तस्यां धर्मराजो यमो राज्यं करोति। तत्र च पुण्यवन्तो जना निवसन्ति। तत्रैव तेजसी नाम्नी शुभकारिणी सभा। तस्यां च सभायां ताम्रचूडो नाम दण्डधरः। स च लेखनाय चतुर्हस्तपरिमितमेकं पुस्तकं स्थापयति। शक्रादयो देवाः सुसेवया तं सुसेवन्ते। ब्रह्मेशविष्णवो यमदेवतुष्टये शर्मणे च कष्टं सहन्ते। परमयोगीन्द्रास्तदनुमत्या योगाभ्यासं भजन्ते! ये चेमे त्रयो लोकास्ते तं सुसेवन्ते। गाढतमो विनाशको हि तदुत्पादयिता सूर्यो नाम तदीयतातः। यद् वै जीवेऽस्मिन् संज्ञावन्मुख्यं, तदेव संज्ञावती नाम्नी तदीया जननी। शनैश्चरो नाम भ्राता, यो जगत्यां वज्रवदुःसहस्तथा
348