________________
श्री हरिबलधीवर-चरित्रम् ___ अतः - अयि राजन्! महदनुचितं कार्यमेतद्। यः परस्त्रीभोगं कामयेत, ततो न विरमेत्।
'सुकृते सत्यपि कर्मणि दुर्गतिरेवान्तरा श्रियं हरति, तैलेाद्भुक्तेऽपि हि दीपशिखां हरति वातालिः।' अतोऽन्यायमार्गमपहाय न्यायमार्गो हि स्वीकार्यों भवता, न्यायमार्गो हि सर्वसंपदां हेतुः' तथा चोक्तं नीतिशास्त्रे -
द्रुमेषु सलिलं सर्पिनरेषु मदने मनः । विद्यास्वभ्यसनं व्यायः, श्रियामायुः प्रकीर्तितम् ||१||
श्रुतेन बुद्धिः सुकृतेन विज्ञता, मदेन नारी सलिलेन निमग्ना। निशा शशाङ्केन धृतिः समाधिना,
नयेन चालंक्रियते नरेन्द्रता ||२|| इत्थं सुरीत्या हरिबलस्त्रियौ नूत्नयापि युक्त्या प्रबोधितवत्यौ किन्तु यथाऽतिसारे सदौषधिर्मिथ्यात्वमापद्येत, तथा तस्मिंस्तयोः प्रबोधोऽपि वैफल्यमाप। अथ कन्दर्पदर्पपीडापीडितः स दुर्मति राजाह-अहो कामिन्यौ! अहं धराधिपतिर्भवन्नपि युवां बह्वर्थये, तथापि युवां न मन्येथे। किं च किञ्चिद्विचारयतं यद्यौष्माको भर्ता जीवन्नेव समायादित्याशा वां दुराशैव। वां प्रासये एव मया पूर्वमेव स भस्मसात्कारितः। अतो द्रुतमेव युवां मां भर्तृभावेन प्राप्नुतम्। यतोऽहमेवेदानीं वां दुःखसुखहेतुः। युवां च मे वश्येऽवश्यंभाव्ये। यदि मत्कथनं न स्वीकुर्वातां भवत्यौ, तदाऽहं बलादपि युवां गृह्णीयाम्। यतोऽहं युवयोरासक्तः, अतो स्वेच्छयैव मद्गृहागमने शोभनं भवत्योर्मम च। इत्थं राजवचः समाकर्ण्य हरिबलस्त्रियौ बहुरोषमावहन्त्यौ तं भणितवत्यौ-रे दुर्मते! धिक् त्वां यद्वायस 1. नवीनया। 2. युवयोः। 3. कृ ३.पु.द्वि.-आत्मने-आज्ञार्थ।
345