________________
श्री हरिबलधीवर-चरित्रम् संपतेन्नाम!
अथ राजा तत्काल एव नगराबहिः काष्ठानां सञ्चयं कारयित्वा तस्य मृत्युमयीं चितां च कारयित्वा तामग्निना प्रज्वालयामास। हरिबलो ग्राम्यजनसमक्षे तस्यां पतित्वा भस्मसाद् बभूव। ते च ग्रामीणा हृदयविदारकं हाहेति शब्दं विचुक्रुशुः। समेऽपि जना राजानं मुख्यामात्यं च विगर्हयाञ्चक्रुः। अहो कियानाश्चर्यविषयः। राजाऽसौ प्रतापिनं हरिबलं छद्मनावधीत्। अत्यनुचितं व्यधात्। यादृशो वै नो नृपतिर्न तादृशोऽवन्यां कोऽप्यन्यः स्यात्। अथ ते समेऽपि राजानं मुख्यामात्यं च विगर्हयन्ति हरिबलं च भृशं प्रशंसन्ति, किं च सिंहमिव पराक्रमिष्णुं बलिनं विष्णुमिव शक्रमिव यशस्विनं प्रतापिनं महान्तं पुरुषं हरिबलं, दुर्मतिराट् प्रधानश्च ललनालम्पटौ छद्मना तं घातयतः स्मेति महद् दुष्कृतं कर्म। अतो नैतादृशौ कावप्यधर्मिणौ स्याताम्। इत्थं यथा मृतदेहाद् दुर्गन्धाधिक्यं निस्सरेत्तथाऽखिलपत्तने राज्ञोऽधर्मापकीर्त्तिदौर्गन्ध्यं वितेने। अथ स हरिबलो वह्नौ संपतन्नेव सुस्थितदैवतं सस्मार। तत्सान्निध्यात्तच्छरीरे किञ्चिन्मात्रमपि व्यथा न व्यापत्, किं च यथा स्वर्णतापनात्तस्मिन् प्रदीसेराधिक्यं जायते तथा हरिबलोऽपि कान्त्या प्रदिदीपे। अञ्जनसिद्धिरिव तत्क्षण एव चितातो निस्सृत्यादृशो भवन् रहसि व्यतिष्ठत। रात्रौ च निजगृहे प्रातिष्ठत। हरिबलं च दृष्ट्वैव तदीये स्त्रियौ हर्षवत्यौ बभूवतुः। विस्मयमावहन्त्यौ च धन्यम्मन्यमाने सुधातुम्बीतोऽमृतं निस्सार्य तस्मिन् प्रचिक्षेप (प्रचिक्षिपतुः)। तत्प्रभावतस्तद्देहः शक्रकान्तिरभवत्। 'पुण्योदयात् किं किं न सम्भवति, दुर्जनो जनः पुण्यवन्तं सुजनं कष्टवार्की पातयेच्चेत्तदर्थं सौख्यवार्द्धिस्संपद्येत। यथाऽगरौषधिं वह्नौ पातयति कश्चित्तदा ततः सुगन्धिरेव निस्सरति, तथैव पुण्यवते पुंसे खलताकृता विपत्तिरपि संपत्तिरूपैव भवति।'
343