________________
श्री हरिबलधीवर-चरित्रम् वक्ति, पश्चाच्च किं ब्रूयादित्यादि शङ्कान्वितहृदया चेद्विनष्टशङ्का भव। किं बहुनाऽद्यारभ्य प्रतिज्ञायते खलु मया। यद्यावदस्मिन् देहे मम जीवनं तावत्तन्निदेशतो मदनवेगितोऽसौ क्षणमात्रमपि त्वत्तः पृथग्भूय नैव वितिष्ठेत! इत्थं वाचं समर्प्य सकुमतिं भूपतिं युगपत्करं प्रसारयन्तं विलोक्य विचारसागरमग्ना हारिबलीभार्या राजवशं गताऽधः पश्यन्ती किमपि विचारयन्ती निःश्वासान् त्यजन्ती दृग्भ्यां बाष्पं पातयन्ती सा वसन्तश्रीः सकरुणं विदेशिनं निजं प्रियपतिं ध्यायन्ती विचारयति-प्राणनाथ! तव विदेशप्रेषणेऽसौ दुर्मतिर्नृपतिरेतदुःखे सङ्केतमन्तरा किमन्यत्स्यात्, इह चाहं वैदेशिकी को मे चात्र साहाय्यवान्, भूपतिश्चायं दुर्मतिः, पतिरहितायां निर्बलायामबलायां मयि छद्मनाऽनुचितं कार्यञ्चिकीर्षति, शीलं च मे चिखण्डयिषति मनागपि तस्य नाऽऽयाति व्रीडा। ततः साब्रवीत् अहो! धिक् ते राज्यादिकं, किं मे प्रयोजनं तेभ्यः, नेच्छामि ते पट्टराज्ञी भवितुं, किं कर्तव्यानि मया ते रत्नवस्त्राभूषणस्वर्णानि। क्षणभङ्गुरेऽस्मिन् देहे न मे वित्तेच्छा काचित्। अखण्डितं मे शीलं स्यादेतदेव हीच्छामि। रे पापात्मन्! न सोढुं शक्ता ते दुर्वाचं, स्वमार्गमवलम्बय? यदिह यथाऽऽयातस्तथा व्रज? यतोऽहं क्षत्रियवंशजा, खण्डयामि तेऽमुमखर्वगर्व क्षणादेव। किं च, किं कुर्याम् जीवहिंसया बिभेमि, इत्याकर्ण्य राजाऽवदत्-सर्वमदः साधु, किन्तु मादृशो नरपतिस्त्वादृशीमबलां प्राप्य राज्यादिकं किं कुर्यात्? अत एव प्रिये प्रिये! इति बहुशः समाह्वयाम्यतो न कार्यों लम्बो विलम्बः, शीघ्रमेव व्रज, गच्छामीति ओम्, नो वा किमप्युत्तरय, कीदृशी ते मतिः, न जानासि त्वं यत्त्वमिह केवला तावकीनश्च पतिः किं जीवनिह समायास्यति? को नाम जानीयात्स महोदधौ पतन् कदा मृतः स्यात्, का नामैतादृशी ह्यनाथा स्यात् या 1. अत्यन्त।
333