________________
श्री चम्पकमाला-चरित्रम्
चतुर्थ-प्रस्तावः केचिच्च नाटकादि कुर्वते, इत्थं धनोपार्जनेऽपि महानेव क्लेशो दृश्यते, सुखं तु मनागपि नैवाऽवलोक्यते। अत एवहिंसामजिषु मा कृथा वद गिरं सत्यामपापावहां, स्तेयं वर्जय सर्वथा परवधूसङ्गं विमुचादरात् ।
कुर्विच्छापरिमाणमिष्टविभवे क्रोधादिदोषांस्त्यज, प्रीति जैनमते विधेहि नितरां सौख्ये यदीच्छास्ति ते ||४५||
व्याख्या - भो लोकाः! प्राणिषु =जीवेषु हिंसां तद्धिंसनं मा कृथाः = मा कुरु, अपापावहाम् = पापाननुबन्धिनी सत्याम् = सत्यभूतामेव गिरं = वाचं वद = ब्रूहि, स्तेयं = चौर्य वर्जय= त्यज, आदराद् = यत्नतः परेषामन्येषां या वध्वः स्त्रियस्तासां सङ्गं मुश्च = जहाहि, इष्टविभवे = वाञ्छितधने चेच्छापरिमाणं ममैतदेव स्यात्तदधिकं नेति परिग्रहपरिमाणं कुरु, किञ्च ये खलु क्रोधादयो महानर्थकरा दोषास्तांस्त्यज। यदि नितरामतिशयेन सौख्ये = सर्वाधिके सौख्ये इच्छा = वाञ्छा ते = तवास्ति वर्त्तते, तर्हि जैनमते = वीतरागप्ररूपिते धर्मे प्रीति = रागं, विधेहि = विधत्स्व, इति।
__ यथा दिग्भ्रान्त्या नैशिकतिमिराधिक्याद्वा पथो विस्मृत्या कश्चिन्मूढधी नावुदिते प्रणष्टे च तमःपटले भ्रमे वा सम्यग्मार्ग विदन् नितरां हृष्यति, तथा तस्य गुरोगिरा प्रध्वस्तमोहान्धकारा भव्या जीवा यथावद्धर्ममार्गमवबुध्य निःसीममानन्दं प्रपेदिरे। तदानीं प्रणष्टमोहान्धकारोऽतिविशिष्टाऽऽशयो विद्वान् पटीयान् लघुकर्मा च सार्थवाहो गुरूनेवं व्याहर्तुमारभत-प्रभो! अहमद्यावधितत्त्वावबोधमन्तरा आत्मानं मुधैव पण्डितंमन्यमान आसम्। यतः-कलासरितां पारं गन्तुरपि जीवस्य तत्त्वावबोधं विना मूर्खता
283